पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८९८ : याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः वेदानुवचनं यज्ञो ब्रह्मचर्य तपो दमः ॥ . . श्रद्धोपवासः स्वातन्ध्यमात्मनो ज्ञानहेतवः ॥ १९० ॥ स ह्याश्रमैर्विजिज्ञास्यः समस्तैरेवमेव तु ॥ , द्रष्टव्यस्त्वथ मन्तव्य: श्रोतव्यश्च द्विजातिभिः ॥ १९ ॥ य एनमेवं विन्दन्ति ये चाऽऽरण्यकमाश्रिताः ॥ उपासते द्विजाः सत्यं श्रद्धया. परया युताः ॥ १९२ ।। क्रमाते सम्भवन्यर्चिरहः शुक्लं तथोत्तरम् ।। अयनं देवलोकं च सवितारं स वैद्युतम् ।। १९३ ॥ ततस्तान् पुरुषोऽभ्येत्य मानसो ब्रह्मलौकिकान् ॥ करोति पुनरावृत्तिस्तेषामिह न विद्यते ॥ १९४ ॥ सप्तर्षीणामुत्तरतो नागवीथ्या ऐरावतमार्गस्य दक्षिणतो मध्ये देवलोकमाश्रिता अष्टाशीतिसहस्रसया एते मुनयः सन्ति । कुतो हेतोरत आह सर्वः काम्यकरिम्भैः वर्जिताः । तपोब्रह्मचर्यसङ्ग- त्यागमेधाभिस्तत्र देवलोके गत्वा यावदासमन्ताद्भावेन भूतसंप्लवः प्रलयस्तावत्कालमवतिष्ठन्ते । यतो देवलोकस्य मुनिवर्गात् वेदाः, पुराणानि, विद्या वेदान्तशस्त्राणि, उपनिषदो बृहदारण्यकादयः, श्लोका इतिहासरूपाः, सूत्राणि व्यासपाणिन्यादिप्रणीतानि, भाज्या- णि तद्याख्यारूपाणि यदन्यत्किञ्चन वाडमयमायुर्वेदादि पतानि सर्वाणि प्रवर्तन्ते । तथा च सति घेदस्याऽनुवचनमध्ययनम् । ततो यज्ञब्रह्मचर्यतपोदमश्रद्धोपवासाः प्रवर्तन्ते । स्वातन्त्र्यं विषयाणां सङ्गलक्षणं च प्रवर्तते । एते चाऽत्मनो मोक्षहेतुतत्त्वज्ञानहेतवः। नन्वा. स्मनः साक्षात्कारो मोक्षहेतुरिति किं वेदजन्यशाब्दज्ञानेनेत्यत आह । आश्रमैः ब्रह्मचर्यादिभिः समस्तैरेवमेव वेदानुवचनाद्युपायेनैव श्रोत. व्योऽथ मन्तव्योऽथ द्रष्टव्यो भवति द्विजातिभिः । अथाऽऽत्मज्ञानेऽपि कः पुरुषार्थ इत्यत आह । आरण्यकं वृहदारण्यकमाश्रिता ये द्विजा ये च परया श्रद्धया युक्ता द्विजा एवमेनमुपासते ते सत्यं परमार्थः रूपं परमात्मानं विन्दन्ति । तत्र परमार्थलामे मार्गमाह क्रमादिति । ते ब्रह्मोपासका अचिवन्ाभिमानिदेवतास्थानम् , अहर्दिनाभिमानिदे. वतास्थानम्, शुक्लपक्षस्य उत्तरायणस्याऽभिमानिदेवतास्थानं, देव-