पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । वीरमित्रोदयमिताक्षरासहिता। ८९९ लोकं सवितारं सूर्यलोकं वैद्युतं विद्युदभिमानिदेवतास्थानं कमात् सम्भवन्ति प्राप्नुवन्ति । ततोऽचिरादिलोकप्राप्त्यनन्तरं मानसः पुरुषोऽभ्येत्य ब्रह्मलोकभाज उपासकान् करोति। तेषां चेह संसारे पुनरावृत्तिर्न विद्यते । तथापदेनोपनिषद्व्याख्यानग्रन्थस्य चका. रेण वेदाङ्गानां समुच्चयः । हिशब्दो वेदानुवचनस्य ज्ञानहेतुत्वे श्रोतः ब्यत्वस्य हेतुतामभिप्रेति । आद्येन तुशब्देन मननपूर्व द्रष्टव्यतां, द्विती. येन-श्रवणपूर्व मन्तव्यता व्यवच्छिनत्ति । चकारेण तृतीयेन निदि. ध्यासनसमुच्चयः। ये चेति चकारः छान्दोग्याशुपनिषत्समुच्चयार्थः। तथे. ति ऊर्ध्वस्थितरश्मिभवितव्यतां व्यवच्छिनात्ति । चकारेण महर्लोकाः दिसमुच्चयः ॥ १८७-१९४॥ (मिता०) किश्च:- ___ सप्तर्षीत्यादि । सप्तर्षयः प्रसिद्धाः, नागवीथी ऐरावतपन्थाः तद. न्तराले तावन्त एव अटाशीतिसहस्त्रसंख्या मुनयः सर्वारम्भविव. जिंता केवलज्ञाननिष्ठाः तपोब्रह्मचर्ययुक्ताः तथा सङ्गत्यागिनो देवलोकं समाश्रिताः आभूतसम्प्लवं प्राकृतप्रलयपर्यन्तमवतिष्ठन्ते । तत्र च स्थिताः सृष्टयादावाध्यात्मिकधर्माणां प्रवर्तकाः ॥ १८७-१८८॥ (मिता० ) कथंभूतास्ते मुनय इत्यत आह-- ___यत इति । यतो द्विविधादपि मुनिसमूहाच्चत्वारो वेदाः पुराणाङ्ग- विद्योपनिषदश्च नित्यभूता एवाध्येतृपरम्परायाताः प्रवृत्तास्तथा ग्लो- का इतिहासात्मकाः सूत्राणि च शब्दानुशासनमीमांसागोचराणि भाष्याणि च सूत्रब्याख्यारूपाणि यदन्यदायुर्विद्यादिकं वाडायं तद. पि यत्सकाशात्प्रवृत्तं तथाविधास्ते मुत्नयो धर्मप्रवर्तकाः । एवंसति वेदस्यापि नाऽनित्यतादोषप्रसङ्गः ॥ १८९ ॥ (मिता०) ततः किमित्यत आह- . . वेदेति । वेदस्य नित्यत्वे सति तत्प्रामाण्यवलाद्वेदानुवचनादयः लत्त्वशुद्ध्यापादनद्वारेणाऽऽत्मज्ञानस्य हेतव इत्युपपन्नं भवति ॥१९०।। (मिता०)किञ्च- । स इति । यस्मानित्यतयात्मप्रमाणभूतो वेदस्तस्मादसावुक्तमार्ग- ण सकलाश्रमिभिर्नानाप्रकारं जिज्ञासितव्यः । तमेव प्रकारं दर्शय- ति । द्विजातिभिर्द्रष्टव्योऽपरोक्षीकर्तव्यः । तत्रोपायं दर्शति-श्रोतव्यो अन्तव्य इति । प्रथमतो वेदान्तश्रवणेन निर्णतव्यः। तदनन्तरं मः