पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
यादवाभ्युदये


कनिधि त्रयाणां लोकानामेकास्पदभूत भगवन्तम् । गर्भे वहन्त्याः । परावरक्रीडितेति द्वन्द्वान्तस्थः प्रत्येकमभिसंबध्यते । तथा च गर्भे त्रिलोकैकनिधिमिति तन्मयतावाप्त्या परत्वपिशुनानि क्रीडितानि परकीडितानि, शृगारादिप्रचुरमिति तद्धर्मसक्रान्त्या लोकवदवरत्वपिशुनानि अवरक्रीडितानि द्विविधान्यपि 'लिलेख विश्वानि जगन्त्यभिज्ञा' इत्यादिभिः श्लोकैरग्रे वर्णयिष्यति । तैः कर्बुराणि चित्राणि । 'चित्रकिीरकल्माषशबलताश्च कबुरे ।' इत्यमरः । दौहृदलक्षणानि गर्भचिह्नानि । द्वेधा परावररूपतया द्विप्रकाराणि । अभवन् प्रादुर्भूतानीत्यर्थः ॥ २ ॥ अशेषवेदैरधिगम्यभूम्ना सिद्धेन सिद्धेश्च निषेवितेन । अमानुषी नूनमभूदयत्ना कृष्णेन केनापि रसायनेन ।। ३॥ . अशेषेति। अशेषवेदैः अधिगम्यभूना सकलवेदप्रतिपाद्यमहिम्ना । सि. द्धन नित्येन । रसायनपक्षे प्रसिद्धेन । “सिद्धःस्याद्देवयोनिषु । नित्ये प्रसिद्ध निष्पन्ने' इति विश्वः । सिद्धैः देवयोनिविशेषैः । निषेवितेन पूजितेन । अन्यत्र कायसिद्धियुक्तैः प्राक तदर्थ स्वीकृतेन । कृष्णेनैव । केनापि अचिन्त्यप्रभावेन । रसायनेन औषधविशेषेण। 'रसायन विहङ्गेऽपि जराव्याधिहरौषधे।' इति विश्वः । अयत्नात् यत्नमनपेक्ष्य । ल्यब्लोपे पञ्चमी । नूनम् । अमानुषी। अभूत् । कथमन्यथा मानुष्यास्तादृशस्तेजोविशेष इति भगवत्प्रवेशकृतन ‘रक्षाविधौ राक्षसदानवानाम् ।' इति श्लोके स्पष्टीकरिष्यमाणेन दिव्यतेजसा तथोत्प्रेक्षा । कृष्णे रसायनत्वारो. पणाद्रपकम् । रसायनमायुर्वेदमात्रप्रतिपाद्य जराव्याधिमात्रापनार्यकश्च ।