पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६
यादवाभ्युदये


वा सर्वेषां जगताम् । प्रभवस्य । 'पुसः । प्रकाशकत्वम्। प्रतिपत्त्यमाना प्राप्स्यन्तीम् । तां देवकीम् । भावितचेतसः संस्कृतान्तःकरणाः शानिनः। विद्यानिधि विश्वपितामहीं च। अभावयन् , त्रय्यन्तवत् परमात्मनः प्रकाशित परविद्यानिधानरूपां विश्वजनकस्य प्रकाशिका लोकदृष्टया मातेतिज्ञातां विश्वपितामही च मेनिर इत्यर्थः । यद्यपि प्रकाशकत्वमित्यत्र कृदन्तम्य गुणवचनत्वाभावात् न पुंवद्भावसभवः । संज्ञाजातिव्यतिरिक्ता गुणवचना इति पक्षेऽपि न कोपधायाः' इति पुवद्भावनिषेधात् । तथापि स्त्रावाविवक्षायां अकृतस्त्रीप्रत्ययादेव त्वप्रत्यय इति समाधेयम् ॥ १४ ॥ लिलेख विश्वानि जगन्त्यभिज्ञा लीलाहते चित्रपटे यथार्हम् । प्रायः प्रजानां पतयः प्रतीता यन्मातृकाः स्वेषु विधिष्वभूवन् ॥ १५ ॥. लिलेखेति । अभिज्ञा भगवन्मयत्व प्राप्य सकललोकसंस्थानाद्य-' भिज्ञा देवकी । लीलया आहृते । चित्रपटे आलेख्ययोग्ये पट इति मध्यमपदलोपी समासः । आश्चर्ये पट इति वा । 'आलेख्याश्चर्ययोश्चितम्' इत्यमरः । यथाह यथोचित यत्र यल्लेखनीयं तत्र तदनतिक्रम्येत्यर्थः । पदार्थानतिवृत्तावव्ययीभावः । विश्वान्यपि जगन्ति अखिलानपि लोकान् । लिलेख । प्रजानां पतयः स्रष्टारः । प्रायो नूनम् । यन्मातृकाः यो देवकीलिखितचित्रपटो मातृका येषां तथाभूतास्सन्तः । खेषु विधिषु स्वकृ. त्येषु । प्रतीताः ख्याताः । अभूवन आसन् । प्रजापतीनामपि जगत्सृष्टावनया लिखितचित्रपट: प्रायो मातृकाभूदित्युत्प्रेक्षा । तथा च यथामन सकललोकमंस्थानलेखनं व्यज्यते ॥ १५ ॥