पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६७
द्वितीयः सर्गः।

निराशिषां पद्धतिमाददांना नैश्रेयसी नीतिमुपनयन्ती। पुण्याशया पूर्वयुगप्ररोह मियेष देवी भुवने विधातुम् ॥ १६ ॥ निराशिषामिति । निराशिषां निरभिलाषाणां विरक्तानाम । 'आशीरुरगदष्ट्रायां शुभवाक्याभिलापयोः' इति यादवः । पद्धति मार्गम् । आददाना । नैश्रेयसी निश्रेयससम्बन्धिनी मुक्त्युपयोगिनीम् । नीति अबहिर्मनस्कतादिरूपाम् । उपनयन्ती आश्रय कुर्वती । पुण्याशया शुद्धान्त - करणा। देवी देवकी। भुवने । पूर्वयुगप्ररोह सर्वपूर्वस्य कृतयुगस्याङ्कुरम् । विधातु इयेष सत्वगुणसमृद्धस्य धर्मनस्थापनरतस्य च भगवतः तादाम्यापत्त्या तादृशीमेव शैलीमाश्रित्य कृतयुग इव चतुष्पाद धर्म जगति प्रतिष्ठापयितुमच्छदित्यर्थः ॥ १६॥ अनाप्तपूर्व किमपेक्षितं ते किं भुक्तपूर्वेष्वधुनोपदद्याम् । वयस्ययाऽभावविदानुयुक्ता न किञ्चिदित्येव जगाद नाथा ॥ १७ ॥ अनाप्तेति । पूर्वमनाप्त अनाप्तपूर्व सुग्मुपेति समासः । कि वस्तु । ते तव । अपेक्षितम् । अथवा । भुक्तपूर्वेष्वेव । अधुना इदानीम् । कि वस्तु। उपदद्या उपहरेयम् । इत्यनेन प्रकारेण । भाव वेत्ति इति भावविन् सा न भवति इति अभाववित् तया अभावविदा भगवद्रूपायास्तस्या निन्यतृप्ततया न काप्यन्यासां गर्भिणीनामिव स्पृहेति नदभिप्रायमजा