मण्डलं यस्य स तथोक्तः । तापेन आत्मतापोष्मणा पन्नगेन्द्रपक्षे गरलोष्मणा चाधिकः । वासरः दिवस एव पन्नगेन्द्रः फणिराजः। प्रायेण नूनम् । सन्ध्यामेव सुपर्णी गरुडजननीम् । अवलोक्य । भीतः । पातालबिल नागलोकस्य रन्ध्रम् । विवेश । अत्र उष्णकरम्य पाताले प्रवेश एव, तदनन्तर अदृश्यमानस्य वासरपन्नगेन्द्रस्य फणामणिपुरस्कारेण तत्र प्रवेश उत्प्रेक्ष्यते । अत्र फणामणिप्रेक्ष्येत्युपमा। तापाधिक इति तापद्वयाभेदा. ध्यवसायरूपातिशयोक्तिः । वासरपन्नगेन्द्रः सन्ध्यासुपर्णीमिति च रूपकम् । भीत इति प्रवेशंहतुगर्भविशेषणमिति पदार्थहेतुक काव्यलिङ्गम् । प्रायेणेति तद्धेतुत्वोत्प्रेक्षकत्वप्रतिपादनात् हेतूत्प्रेक्षा । एतैरुत्थापिता च विवेशेति स्वरूपोत्प्रेक्षेति एतेषा सङ्करः ॥ ४२ ॥ प्रदोषरागारुणमूर्यलक्षा दिशागजो दृप्त इवातिघोरः। कालोपनीतं मधुना समेत ___मन्ये पयोधिः कबलं न्यभुङ॥ ४३ ।। प्रदोषेति । दृप्तः गर्वितः । दिशागजः दिग्गजः इय । अतिघोरः अ. त्यर्थ भयङ्करः । पयोधिः । प्रदोषरागेण अरुणस्य सूर्यस्य लक्षात् व्याजात्। ‘लक्ष नपुं शरव्ये न स्त्री व्याजे नियुते न ना' इति यादवः। कालेन समयेन उपनीतम् । मधुना क्षौद्रेण । समेत कबलम् । न्यभुङ्क्त । मन्ये । उत्प्रेक्षाव्यञ्जकोऽय मन्य इति शब्द । तदुक्त दण्डिना--'मन्ये शङ्के ध्रुव प्रायो नूनमित्येवमादिभिः। उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ।' इति । इद च निपातप्रतिरूपक अव्ययमिति भोजराजः । दिक्शब्दात् 'आपञ्चैव हलन्तानां' इति टापि दिशाशब्दस्साधुः । अत्र पयोधे
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१२८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८२
यादवाभ्युदये