पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८३
द्वितीयः सर्गः।

गजेन सादृश्यप्रतिपादनात् तद्भोजयितृत्वेनाभिमतस्य कालस्याधोरणसादृश्यं प्रतीयत इत्येकदेशवलुपमालङ्कारः। यद्यपि रूपकमेवैकदेशवर्तीति प्राचीनैः अभ्युपगतम् , तथापि अलङ्कारसर्वस्वकृता 'नेरिवोत्पलैः पौमुखैरिव सरश्श्रियः । पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ।' इन्युदाहृत्य न्यायसाम्यादुपमा चैकदेशवर्तिन्यङ्गीकृता । सूर्यलक्षादिति लक्षशब्देनासत्यत्वपरेण नाय प्रदोषारुणम्सूर्यः किन्तु मधुसम्भिन्नकबल इति प्रतीतेरपह्नतिः । एताभ्यामुत्थापिता च समुद्रे सूर्यमन्जनन गम्यमाननिमित्तेन तद्रोक्तृत्वोत्प्रेक्षेति सङ्करः ॥ ४३ ॥ तदा तमः प्रोषितचन्द्रसूर्ये दोषामुखे दूषितसर्वनेत्रम् । वियोगिनां शोकमयस्य वह्ने राशागतो धूम इवान्वभावि ॥ ४४ ॥ तदेति। तदा तस्मिन् काले । प्रोषिचन्द्रसूर्ये । दोषामुखे रजनीप्रारम्भे। दूषितसर्वनेत्र उपहतसर्वलोचनम् । तमः । वियोगिनां विरहिणाम । शोकमयस्य वह्नः शोकरूपस्याग्नः । आशागतः दिशः प्राप्तः। धूम इव । अन्वभावि अनुभूतम् । दोषापदमव्ययमित्यमरसिहादिभिरुक्तम् । 'तत. कथाभिस्समतीत्य दोषामारुह्य सैन्यैम्सह पुष्पक सः।' इति भट्टिप्रयोगादनव्ययम'याहुः । शोकमयस्येति स्वरूपार्थे मयटप्रत्ययः । अत्र नेत्रदूषकत्वसाम्यनिमित्ता शोकमयस्य वहेरित्यपह्नतिसंकीर्णा धूमत्वोत्प्रेक्षा॥ सतारपुप्पा धृतपल्लवश्रीः • प्रच्छायनीरन्ध्रतमःप्रताना ।