लङ्कारः। निवत्स्यत इत्यत्र ‘वस निवास' इति धातालटः शतरि ‘सः स्याधधातुके' इति सकारस्य तकारादेशः ॥ ४६॥ अभृङ्गानादप्रतिपन्नमौना निमेषभाजो नियतं वनस्थाः । दूरं गते स्वामिनि पुष्करिण्य स्तत्प्राप्तिलाभाय तपो वितेनुः ॥४७॥ अभृङ्गेति । स्वामिनि नाथे सूर्ये । गते अस्तमिते सति । नियतम् । वनस्थाः सातत्यंन जलस्थाः नियमेन काननम्थाश्च । 'वन कानननीरयोः' इति विश्वः। अभृङ्गनादेन भृङ्गनादाभावेन प्रतिपन्नमौनाः प्राप्तवाइनियमाः। निमेषभाजः मुकुलीभावभाजः ध्याननिमीलनभाजश्च । पुष्करिण्यः पद्मिन्यः । तस्य सूर्यस्य प्राप्तेलाभाय सिद्धय । तप.। वितेनुः चक्रुः । अत्र भृङ्गनादाभावे मौनत्वारोपस्य तपश्चर्योपयोगात् परिणामः । सूर्यस्य पतित्वरूपणात् पद्मिनीनां तत्पत्नीत्व गम्यत इति एकदशवर्तिरूपकम् । पद्मसकोचे निमेषाभेदाध्यवसायान् लक्षणामूलातिशयोक्तिः। तत्प्राप्तिलाभायेति फलोप्रेक्षा। नपो वितेनुरिति स्वरूपोत्प्रेक्षा वाचकाप्रयोगाद्गम्या । एतेषां च सङ्करः ॥ ४७ ॥ निमीलितानां कमलोत्पलानां निष्पन्नसख्यैरिव चक्रवाकैः । विमुक्तभोगविदधे विषण्ण विबोधवेलावधिको विलापः ॥ ४८ ॥ निमीलितानामिति । चक्रवाकैः कोकैः ( कर्तृभिः) । निमीलितानां
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१३१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८५
द्वितीयः सर्गः।