प्राचीनशैले समयानिमूद समुद्यता चन्द्रामिवाभिसर्तुम् ॥ ४९ ॥ तमिस्त्रेति । किञ्चित् सन्ध्यां अतीत्य । तमिस्रेण तमसैव नीलाम्बरेण नीलवस्त्रेण सवृत सवरण अङ्गति गच्छतीति सवृताङ्गी । अगिगताविति धातोः कर्मण्यण् । संवृताझी अवकुण्ठितावयवा। श्यामा निशा सैव श्यामा युवतिः। 'श्यामा षोडशवर्षा स्त्री त्रिवृता शारिबा निशा ।' इति रत्नमाला। प्राचीनशैले पूर्वाचलं। प्राचीनशब्दशक्त्या प्राक्परिचितसङ्केतस्थान इत्यपि गम्यते । समयात् कालादेव सङ्केतात् । 'समयः कालसिद्धान्तप्रतिज्ञाशपथेषु च । सङ्केताचारयोश्च' इति रत्नमाला । निगूढ निलीनम् । चन्द्र अभिसर्तुम् । समुद्यतेव बभौ । अभिसारिकापि' प्रकाशभिया कि चित् सन्ध्यामतीय तमसि नीलाम्बरेणावकुण्ठिता अभिसरतीति भावः । अत्र तमिस्रनीलाम्बरेति नैल्यस्य सामान्यधर्मस्य प्रयोगात् उपभाबाधं परिशेषाद्रूपकसिद्धौ तदुत्थापित श्यामासमयादित्यनयोः श्लिष्टरूपकम् । ततश्चन्द्रस्य नायकत्वरूपण गम्यत इत्येकवर्तिरूपकम् । तदुत्थापिता चाभिसारिकात्वोत्प्रेक्षेति सङ्करः ॥४९॥ निशाकरेण प्रतिपन्नसत्वा निक्षिप्तदेहेव पयोधितल्पे। जगत्समीक्ष्या जहती च कार्य पाची दिशा पाण्डरतामयासीत् ।। ५० ॥ निशेति । निशाकरेण चन्द्रेण । प्रतिपन्नसत्वा प्राप्तगर्भा । पयोधौ समुद्र एव तल्पे। निक्षिप्तदहा तत्संश्लेषात् तत्र न्यस्तदेहेव स्थिता ।
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१३३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८७
द्वितीयः सर्गः।