पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९२
यादवाभ्युदये

नमांसि दुर्वारबलस्सकालः प्रायो विलोप्तुं सहसा दिशां च । मनांसि कामश्च मनस्विनीनां पायुक्त शैत्याधिकमर्धचन्द्रम् ॥ ५७ ॥ तमांसीति । दुःखेन वार्यत इति दुरि बल यस्य सः । कालः समयः । प्रायः । सहसा सद्यः । विलोप्तु विनाशयितुम् । शैव्येन शीतत्वेन, उत्तेजितत्वेन च अधिकम् अर्थवासा चन्द्रश्च त । अर्धचन्द्ररेखाम् , आयुधविशेष च । प्रायुडक्त । अत्र रात्रिवर्णने प्राकरणिकयोः कालकामयो अर्धचन्द्रप्रयोगरूपक्रियान्वयेन परस्परौपम्यप्रतीतेस्तुल्ययोगितालङ्कारः । स च शैत्याधिकमर्धचन्द्रमिति लमूलातिशयोक्त्यनुप्राणित इति सङ्करः। अर्धचन्द्रस्तु चन्द्रके । गलहस्ते वाणभेदे' इति विश्वः ॥ ५७ ॥ करण संकोचितपुष्करेण मदप्रतिच्छन्दकलङ्कभूमा। क्षिप्त्वा तमशैवलमुन्ममज : मनो दिशानाग इवेन्दुरब्धः ॥ ५८ ॥ करेणेति। मदप्रतिच्छन्दः मदजलसदृशः कलङ्कस्य भूमा बाहुल्य यस्य सः । इन्दुः । संकोचितानि पुष्कराणि पनानि येन तेन । करेण किर. णेन । पक्षे सकोचितस्वाग्रेण हस्तेन । 'पुष्कर करिहस्ताग्रे' इति 'बलिहस्तांगवः कराः ।' इति चामरः । तमशैवल शैवलसदृशं तम. १ क्षिप्त्वा