पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९३
द्वितीयः सर्गः।

निरस्य । मनः दिशानागः दिग्गज इन । अन्धेः उन्ममज्ज उत्तस्थौ । अत्र कंरादिशब्दश्लेषमूलातिशयोक्त्यनुप्राणितोपमालङ्कारः ॥ ५८ ॥ मदोदयाताम्रकपोलभासा शक्रस्य काष्ठा शशिना चकाशे । उदेयुषा व्यञ्जयितुं त्रिलोकी नाथस्य सा नाभिरिवाम्बुजेन ॥ ५९ ।। मदेति। शक्रस्य काष्ठा इन्द्रस्य दिक् । त्रयाणां लोकानां समाहा स्त्रिलोकी ताम् । व्यञ्जयितु प्रकाशयितुम् । उदेयुषा उदितवता । मदोदयाताम्रकपो. लभासा तत्क्षणोदितत्वादासवादिमदजननारुणगण्डतुल्यरुचा। शशिना । नाथस्य स्वामिनो नारायणस्य । सा प्रसिद्धा । नाभि । अम्बुजेनेव। चकाशे । भगवनाभीपद्मपि चतुर्मुखोत्पादनद्वारा त्रिलोकी व्यजयितुमुत्पादयितु उदितमाताभ्रञ्च। 'मुदर्शन चास्य रराज शौरेस्तच्चक्रपद्मं मुभुजोरुनालम् । यथादिपा तरुणार्कवर्ण रराज नारायणनाभिजातम्।' इति भारतवचनात् । उपमालङ्कारः। उदेयुषेति — उपेयिवाननाश्वाननूचानश्व' इति इणधानोः कसुप्रत्ययान्तनिपातनात्साधुः । तत्र वृत्तिकृता उपोपसर्गग्रहणमतन्त्रमित्युपसर्गान्तरेऽपि तदनुज्ञानात् ॥ ७९ ॥ समीपतस्सन्तमसाम्बुराशेः बभार शङ्खाकृतिरिन्दुबिम्बः । पित्तोपरागादिव पीतिमानं दोषाविलपोषितदृष्टिदत्तात् ॥ ६० ॥ समीपत इति । सन्तमसं विष्वक्तमः अम्बुराशिरिव सन्तममा