पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०४
यादवाभ्युदये

अपाकृतध्वान्तघनप्रवृत्त्या शरत्विषा चन्द्रिकया चकाशे ॥ ७६ ॥ , ददानयेति । दिशां सरितामिव । प्रसादं नैर्मल्यम् । ददानया।स्वकात्या स्वशोभया, प्रसक्तहंसागमया हंसागमनशङ्कावहस्वशोभयति यावत् । शरत्पक्षे स्वशोभादर्शनेन सजातहसागमनयेत्यर्थः । अपाकृता ध्वान्तानां घनानां मेघानामिव प्रवृत्तिर्यया तया । अत एव शरत्त्विषा शरत्प्रभासमा. नप्रभया शरत्तुल्ययेति यावत् । चन्द्रिकया । चकाशे । भावे लिट् । उपमालंकारः ॥ ७६ ॥ कलावता कामविहारनाट्ये कालोचितं कल्पयतेव नर्म। अमोघमायापलितंकरण्यः पायो दिशा दीधितयः प्रयुक्ताः ॥ ७७ ॥ कलावतेति । कलावता चन्द्रेणैव नाट्यशिल्पवता सूत्रधारेण । 'काले शिल्पे वित्तवृद्धी चन्द्रांशे कलने कला' इति यादवः । कामविहारे यूनां मन्मथविहार एव नाव्ये । कालोचित नम समयोचित हास्यरसम् । कल्पयता संपादयतेव । दिशाम् । अमोघमायापलितकरण्यः पलितं जरसा शौक्लथं तद्वन्तोऽपि पलिताः । 'सुखं दुःखं मल छिद्र कीलास सिध्म लालसः। रभसः पलितं चित्र तद्वति त्रिषु धर्मिणि ।' इति यादवेन धर्मिण्यप्यनुशासनात् । मायया पलिताः मिथ्यापलिताः अमायापलिता मायापलिताः क्रियन्ते आभिरिति मायापलितंकरण्यः । 'आन्यसुभगस्थूलपलित-' इत्यादिसूत्रेण उपपदविधौ आब्यादिप्रहणं तदन्तविधि प्रयोज