पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०७
द्वितीयः सर्गः।

सुधांशुविम्बव्यपदेशदृश्ये मुग्धे रजन्या मुखपुण्डरीके ॥ ८० ॥ कलङ्केति । सुधांशुविम्बव्यपदेशदृश्ये चन्द्रमण्डलव्याजेन दृष्टिगोचरे। मुग्धे सुन्दरे । रजन्याः । मुख पुण्डरीकामिव तस्मिन् । कलङ्कलक्षेण अङ्क. व्याजेन । काचित् । कस्तूरिकायाः पत्रविशेषस्य कस्तूरिकारचितचित्रकविशेषस्य कान्तिः शोभा । समैक्षि अदर्शि । इह अष्टम्यां पूर्णचन्द्रो वर्णित इति न विरोधः शङ्काहः । काव्यस्य वर्णनामात्रपरत्वेन तदना दरणात् । अत एव माघकाव्ये रात्रिवर्णने प्रथमं महान्तमन्धकार वर्णयित्वा ततः पूर्णचन्द्रोदयो वर्णितः । ततः प्रभाते 'हुतमयमवलीड साधु सांनाय्यमग्निः' इति दर्शेष्टिरपि वर्णिता । यद्वा, अत्र बिम्बशब्दो मूर्तिमात्रपरो मन्तव्यः । तथा च मध्यमादिभागरूप मुखैकदेशे योज्यम् । एवम् ‘समीपत. सतगशाम्बुराशेः' इति श्लोके बिम्बग्रहणस्याविरोधोऽनुसधेयः । सुधांशुबिम्बव्यपदेशेत्यत्रापह्नतिः। कलङ्कलक्षेणेत्यत्राप्यपह्नतिः । रजन्या विशेषणसाम्यान्नायिकात्वप्रतीतः समासोक्तिः । तिसृणां परस्परानुप्राणितत्वेन सङ्करः । मुखपुण्डरीक इत्युपमायाः संसृष्टिः ॥ ८ ॥ तलेष्ववेपन्त महीरुहाणां . छायास्तदा मारुनकम्पितानाम् । शशाङ्कसिंहेन तमोगजानां . लूनाकृतीनामिव गात्रखण्डाः ॥ ८१ ॥ तलेग्विति । तदा । मारुतेन कम्पितानाम् । महीरुहाणाम् । तलेषु