पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११४
यादवाभ्युदये

खमध्यसपनेल्यादिश्लोकव्याख्यानोक्तन्यायेन मुख्यसादृश्याभावात्साहश्योत्प्रेक्षा । रात्रिपक्षे पुण्यशब्दात्तत्करोतीति णिचि पचाद्यच् । देवकीपक्षे तस्मान्मत्वर्थः अर्शआद्यच् ॥ ९१ ॥ सह प्रतिच्छन्दशशाङ्कभेदैः सरस्वतां ताण्डविनस्तरङ्गाः । अवेक्ष्य शौरेरवतारवेलां सन्तोषनिना इव संप्रणेदुः ॥ ९२ ॥ सहेति । सरस्वतां समुद्राणां । तरङ्गाः । शौरेः अवतारवेलां । अवे. क्ष्य समीक्ष्य । सन्तोषनिघ्नाः सन्तोषपरवशा इव । प्रतिच्छन्दशशाङ्कभेदैः प्रतिबिम्बचन्द्रविशेषैः सह । ताण्डविनः उद्धतनृत्तवन्तः सन्त । सप्रणेदुः।' समन्तात्प्रकर्षण नदन्ति स्म । 'उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । अत्र चन्द्रोदयप्रयुक्तसमुद्रक्षोभे ताण्डवत्वेन निगीर्याध्यवसिते सन्तोषस्य हेतुत्व हेतुगर्भविशेषणविन्यासेनोत्प्रेक्ष्यत इत्यतिश' योक्त्युत्प्रेक्षाकाव्यलिङ्गसंकरः ॥ ९२ ॥ अवादितोदीरिततूर्यनादं दिशाभिरामेडितदिव्यगीतम् । सतामुपस्थापितसत्त्वलास्यं सङ्गीतमाङ्गल्यमभूत्तदानीम् ॥ ९३ ॥ . अवादितेति । तदानीं भगवदवतरणसमये । अवादितेभ्यः अकृतवादनेभ्य एव वाथेभ्यः उदीरितः उद्गतः तूर्यनादः यस्मिस्तत्तथोक्तम् । दिशाभिः, आप्रोडेतदिव्यगीतं अभ्यस्तयुप्रभवर्गातम् । सर्वासु -विक्षु