पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११८
यादवाभ्युदये

मुकुन्दे । अवतरति आविर्भवति सति । बसुदेवस्य प्राण ग्रहम् । आनन्दविषये निः अधीनः आनन्दपरवशैरिति यावत् । अमरमिथुनामां हस्तैः । आहिताम् । मुरभितहरिदन्तां वासिताखिलदिगन्ताम् । स्वादुमाध्वीकदिग्वां मधुरमकरन्दरसरूषिताम् , पुष्पवृष्टिम् । अमजत । अत्र मुकुन्दस्य कन्दत्वरूपणात्तद्भवानां संपदामोषधित्वरूपणं गम्यत इत्येकदेशवार्तरूपकालङ्कारः। मालिनीवृत्तम् ॥ ९ ॥ इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभश्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरिवरसूनुना अप्पय्यदीक्षितेन विरचिते यादवाभ्युदयव्याख्याने द्वितीयः सर्गः॥ श्रीमते वेदान्तगुरवे नमः।