पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२१
तृतीयः सर्गः।

जलधरैरभितो दिवि दध्वने सुरगजैरिव मूचितमङ्गलैः ॥ ४ ॥ अनतिवेलति । दिवि अभ्रे। अनतिवेलेन अतीत्रेण समीरणेन चो. दितैः प्रेरितैः । शिशिरैः शीतलैः शीकरैः अम्बुकणैः शीभरित स्फारीकृत रमणीयीकृत वा अम्बर आकाश यैः । सूचित मङ्गल जगतः शुभ यैस्तथा. भूतैः । जलधरैः। सुरगजे: ऐरावतादिभिरिव। दध्वने ध्वनितम् । यथा अभ्रमार्गे अनतिक्रान्तमर्यादप्रवहानिलप्रेरणया सचरन्तः पुष्करोद्भूतशीक. राञ्चितगगनाः सुरगजा जगन्मङ्गल सूचयन्तस्तदानी बृहितरूपध्वनिमकुर्वन् , एव जलधरा अपि गर्जितरूप यनिमकुर्वनित्यर्थः । ‘शीभृ कत्थने' इति धातोरौणादिके अरन्प्रत्यये शीभरशब्दः । 'शीभरः स्फाररम्ययोः' इति नैघण्टुकाः । समुच्चयोपमालंकारः ॥ ४ ॥ ववुरथो मरुतस्त्रिदशाङ्गना वदनसौरभसारभृतः शुभाः। मुदितनिर्जरमुक्तसुरद्रुम प्रसववृष्टिमधुद्रवमेदुराः ॥५॥ वधुरिति । अथो अनन्तरम्। त्रिदशाङ्गनानां वदनस्य यः सौरभसार: सौगन्ध्योत्कर्षः तं बिभ्रतीति तथोक्ताः । मुदितैः हृष्टैः निर्जरैः मुक्तानां सुरद्रुमप्रसववृष्टीनां मधुवैः मकरन्दस्यन्दैः मेदुराः सान्दस्निग्धाः । शुभाः मङ्गलाः मरुतः । ववुः । ‘स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने' इति शब्दार्गवे ॥५॥