पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२४
यादवाभ्युदये

अपेक्षानुरोधात् । समुदत्य सभूट । जलनिधेरिव । भोजपतेः कसस्य । अम्भ इव । मनः । क्षणात् तूर्णम् । स्वयम् । विविशुः । किमित्युत्प्रेक्षावाचकशब्दाभावाद्गम्या उत्प्रेक्षा अनेकेवोपमा चेति तयोः संसृष्टिः । कालुष्यस्य भावस्यैकत्वेऽपि धर्मिबहुत्वेन तद्बहुत्वोपचाराद्बहुवचनम् ॥९॥ असुरवीरगृहाणि पृथग्विधै रशुभशंसिभिरानशिरे मुहुः। अमरराजपुरेषु जजृम्भिरे शुभनिमित्तशतानि पुनः पुनः ॥ १० ॥ असुरेति । अमयु वाराणां श्रेष्ठानां गृहाणि । पृथग्विधैः नानाविधैः । अशुभ सांभ असुराणां भाविकुलक्षयाद्यमङ्गलसूचकैर्निमित्तैः । मुहुः पुनः पुन । आनाशरे व्याप्तानि । कर्मणि लिट । अमरराजानां इन्द्रादीनां पुरेषु । पुनः पुन । शुभनिमित्तानां शतानि बह्वयः शतसख्या: : जजृम्भिरे जृम्भितानि ॥ १० ॥ चरमतश्च ऋणादिव देवकी पतिरमुच्यत शृङ्खलतः स्थिरात् । निखिलबन्धनिवर्तकसन्निधौ विगलनं निगलस्य किमद्भुतम् ॥ ११ ॥ चरमत इति । देवकीपातः वसुदेवः । चरमतः । 'ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः' इति श्रुतौ ऋणद्वयपाश्चात्त्यात् । ऋणात् 'प्रजया पितृभ्यः' इति प्रसिद्धादृणादिव । 'ऋत्यकः' इति प्रकृतिभावः । स्थिरात् ६ढात् । शृालतः शृङ्खलाञ्चेति । चकारो भित्रक्रमः। कंसकृतनिगलादपि अमुच्यत