पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३२
यादवाभ्युदये

त्वया । अन्यथा पितॄणां पुत्रेषु थ उक्तिप्रकारस्ततोऽन्यप्रकारेण । किमपि विशिष्य मया अनुदितुमप्ययुक्तं 'प्रणिपामि भवन्तमनन्यधीः'- इत्यादिरूपम् । किमिति मुधा कथितम् । एव वक्तुमयुक्तमित्यर्थः ॥ २३ ॥ इयममर्त्यपितुस्तव गेहिनी दिविषदां जननी मम चानघा। अभिमतं युवयोरनवग्रह समयभावि मयैव समर्थ्यते ॥ २४ ॥ इयमिति । अनघा अनवद्या। अमर्त्यानां इन्द्रादिदेवानां पितुः काश्यपरूपस्य । तव । गहिनी पत्नी । इय देवकी। दिविषदांइन्द्रादीनाम्। मम च उपेन्द्ररूपस्य । जननी माता, अदितिरूपत्वात् । अतः पूर्वजन्मप्रभृति मम जननी इयर्माप ममात्यन्तपूज्येति भावः । ततः किमित्यत आहअभिमतमिति । युवयोः इय च त्व च युवामित्येकशेषः, तयोः। अभिमत कसनिरोधापनयनादिकम् । अनवग्रह अप्रतिबन्ध यथा तथा अवग्रहशब्देन वृष्टिप्रतिबन्धवाचिना प्रतिबन्धसामान्य लक्ष्यते । समयभावि स्वकाले भविष्यत् । मयैव । समर्थ्यते सपाद्यते । वर्तमानसामीप्ये भविष्यति लट् । युवयोरभिमतसपादन पुत्रभूतस्य ममैव कृत्यम् । तत्र युवाभ्यां वक्तव्य नास्तीत्यवधारणाभिप्रायः । शक्तेन त्वया इदान मेव अस्मदभिमत किमिति न सपाद्यत इति शङ्कावारणाय कस्यचित्परिपाककालस्यापि प्रतीक्षणीयत्वाभिप्रायेण समयभावीत्युक्तम् । इद च कृष्णस्य तदभिमतसपादनप्रतिज्ञावचन नन्दगृहे स्वस्य नयन कर्तव्यमिति वक्ष्यमाणतया तत्र स्थितस्य तवावयोर्विस्मरणं स्यादिति शङ्काधारणायेति बोध्यम् ॥ २४ ॥