पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४६
यादवाभ्युदये

उदपतदिवमुग्रघनस्वना युवतिरूपयुगात्ययशर्वरी। असुरघातिभिरष्टभिरायुधै रलघुभिश्चपलाभिरिवाश्रिता ॥ ५० ॥ उदपतदिति । उप्रघनस्य क्रूरमेघस्य स्खन इव स्वनो यस्याः सा, प्रलयशर्वरीपक्षे उग्रो घनस्वनः प्रलयघनगर्जितरूपो यस्यामिति विग्रहः । असुरान् पौनःपुन्येन नन्तीत्यसुरघातिभिः । 'बहुलमाभीक्ष्ण्ये' इति णिनिः। 'होहन्तेञ्णिन्नेषु' इति कुत्वम् । 'हनस्तोऽचिण्णलोः' इति तादेशः । अष्टभिः आयुधै. अष्टभुजगृहीतैः । ‘सायुधाष्टमहाभुजा' इति विष्णुपुराणोक्तेः । अलघुभिः । चपलाभिः विद्युद्भिरिव । आश्रिता । युवतिरूपयुगात्ययशर्वरी तरुणीरूपा युगान्तकालरात्रिः । दिव अभ्रमुद्दिश्य। उदपतत् उत्पपात । उपमानुप्राणितोऽपणत्यलंकारः ॥ अथ च भोजनियन्तुरयत्रिता दनुजहन्तुरुदन्तमुदरिरत् । पटु गभीरमुदारमनाकुलं हितमविस्तरमर्थ्यमविप्लवम् ।। ५१ ।। अथेति । अथ उत्पतनानन्तरम् । अयन्त्रिता स्वतन्त्रा। भोजानां राज्ञां नियन्तुः कंसस्य । दनुजहन्तुः उदन्त कृष्णस्य वृत्तान्तम् । उदैरिरत् उदीरयति स्म । उत्पूर्वादीरयते डि रूपम् । उत्पतनक्रियासमुवयार्थश्चकारः । पवित्यादीनि क्रियाविशेषणानि । पटु तीक्ष्णम्., असयमिति यावत् । ‘पटुस्तीक्ष्णे,च नारोगे चतुरेऽन्यवत्' इति विश्वः ।