स्तन्येनेति । कृष्णः लुसपुनर्भवायाः । नष्टपुनर्जननायाः । पूत. नायाः पूतनाख्यमायायाः । स्तन्यन सह प्राणान् पपो, विषरूपस्तन्यपानकाल एव प्राणानपि जहारेत्यर्थः । अद्रुतम् आश्रयंभूतम् । यत् भगवतः पूतनास्तन्यपानम् । भावयतां ध्यायताम । जनानां भक्तानाम् । पुनः । स्तनधयत्वं स्तन धयनि पिबतीति स्तनंधयः । 'नासिकास्तनयोधेिटोः' इति खप्रत्ययः । 'अरुषिदजन्तस्य मुम्' इति मुमागमः । तस्य भावः स्तनंधयत्वम् । न बभूव। भगवद्ध्यानस्य मुक्तिप्रदतया पुनर्जननाभावादिति भावः । अत्र पूर्वार्धे पपावित्येतस्मात्सहोक्तिबलात्पानापहरणरूपार्थद्वयप्रतीतिरिति सहोक्तिरलङ्कारः। उत्तरार्धे अनर्थप्राप्तिलक्षणो विषमालङ्कारः। भावना हि भावयितुर्भाव्यमानत्वप्राप्तिहेतुः । यथाऋतुरस्मॅिल्लोके पुरुषो भवति एवमितः प्रेत्य भवतीत्यादिश्रुतेः। अत्र भगवतः स्तन्यपानभावनया भावयितुरधिकस्तन्यपानलाभ आम्ताम् । तस्य स्वत एव जन्मान्तरभावि स्तन्यपानमपि लुप्यत इत्यनर्थोत्पतिः । इय चानर्थोत्पत्तिरूपा निन्दा ध्यानमात्रेण मुक्तिप्रदत्वरूपायां भगवत्स्तुती पर्यवस्यतीति व्याजस्तुत्यलङ्कारः ॥ ४ ॥ निशम्य तस्याः परुषं निनादं . रूक्षं यशोदा रुदितं च मूनोः। ससंभ्रमावेगमुपेत्य भीता तमग्रहीहुग्रहमागमानाम् ॥ ५ ॥ निशम्येति । यशोदा नन्दपत्नी । तस्याः भगवत्पीयमानप्राणायाः । परुष निनादं श्रुतिकठोरं घोषम् । तदनु सूनोः तदङ्कशयितस्य । रूक्ष रुदितं तद्भयाभिनयनायोच्चैः क्रियमाणतया परुषं रोदन च । निशम्य
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२१२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५८
यादवाभ्युदये