स शायितः क्षेमविदा जनन्या पर्यङ्किकायां प्ररुदन्कुमारः। चिक्षेप तुझं शकटं पदाभ्यां गाढाभिघातेन गिरीन्द्रसारम् ॥ ११ ॥ स इति । क्षेम लब्धस्य कुमारस्य सरक्षण वाति क्षेमवित् । तया । 'क्षेमः स्यान्मगले लब्धरक्षणे वारकेऽपि च' इति विश्वः । जनन्या मात्रा । पर्यविकायां कुमारोचिते पर्यके । शायितः । कुमारः कृष्णः । प्ररुदन्सन्। गिरीन्द्रस्य सारो बल यस्य तत् गिरीन्द्रमारम् । 'सारो बले मजनि च स्थिरांशे' इति विश्व । तुझं उन्नतम् । शकटम्। पदाभ्यां गाढाभिघातेन रोदनप्रयुक्तपादचलनापदेशकृतेन दृढताडनेन । चिक्षेप क्षिपति स्म । पर्यशब्दात् 'अल्पे' इत्यल्पार्थे कन्प्रत्ययः । अल्पत्ववि. वक्षयैव ‘स्त्री स्यात्काचिन्मृणाल्यादिविवक्षापचये यदि' इति स्त्रीत्वेन टाप् । तत: 'प्रत्ययस्थात्कात्पूर्वस्य' इत्यादिना अकारस्य इकारः ॥११॥ विदारितस्तस्य पदाग्रयोगा द्विकीर्यमाणो बहुधा पृथिव्याम् । शब्दायमानः शकटाख्यदैत्यः संक्षोभयामास जगन्त्यभीक्ष्णम् ॥ १२ ॥ विदारित इति । तस्य कृष्णस्य । पदाग्रयोगात् चरणाग्रसपर्कादेतोः। विदारितः संजातविदारः । अत एव, पृथिव्याम् । बहुधा । विकीर्यमागः स्वयमेव कीर्णो भवन् । शब्दायमानः शब्दं कुर्वन् । 'शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे' इति कृजथै क्यङ् । शकटाख्यः शकटा
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२१६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३२
यादवाभ्युदये