तमारुरुक्षु तरलाधिप धातारमारोहयदाशु धात्री ॥ २५ ॥ सुरप्रसूनैरिति । सुराणां प्रसूनैः कल्पवृक्षपुष्पैः । सुरभीकृतानाम् । अगणवेदिकानां अङ्गणेषु निर्मितानां वेदिकानाम् । आरोहणानि सोपानानि । ‘आरोहण स्यात्सोपाने समारोहे प्ररोहणे' इति विश्वः । आरुरुक्षु आरोदुमिच्छम् । अत एव, तरलाघ्रिपद्म चञ्चलपादकमलम् । धातार जगता स्रष्टार भगवन्तम् । धात्री माता यशोदा, उपमाता वा काचित् । 'धात्री जनन्यामलकीवसुमत्युपमातृषु' इति विश्वः । आशु शीघ्रम् । आरोहयत् आरोहयति स्म । अत्र चारु बालस्वभाववर्णना. त्स्वभावोक्तिरलङ्कारः ॥ २५ ॥ तलेषु तस्याङ्गणपादपानां तालानुकूलेषु गतागतेषु । व्रजस्थिताः खर्गसदामशृण्व न्दूरोदितान्दुन्दुभितूर्यनादान् ॥ २६ ॥ तलेष्विति । व्रजस्थिता गोपा गोग्यश्च । अङ्गणपादपानां तलेषु चत्वरवृक्षाणामधःप्रदेशेषु अधिकरणेषु । तालानुकूलेषु स्वकीयकरतालानुकूलषु । तस्य कृष्णस्य । गतागतेषु गमनागमनेषु मत्सु । बालाः खलु आह्वानार्थबन्धुजनकृतकरतालानुरोधन गतागतानि कुर्वन्ति । दूरे अभ्रमार्गे उदितान् उत्पन्नान् । स्वर्गमदा देवानां कृष्णस्य गतागताभ्यासदर्शनेन देवकार्यसिद्धेर्नेदीयस्त्वबुद्ध्या मतुष्टानाम् । दुन्दुभितूर्यनादान् भेरीवाद्यशब्दान् । अशृण्वन् ॥ २६ ॥
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२२४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७०
यादवाभ्युदये