पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९६
यादवाभ्युदये

पांसुपुत्रैः । सिन्दूरितो सजातासन्दरौ । सितासितो धवलमेचको । बालगजो कलभाविव स्थितौ । उदारलीलो रमणीयचेष्टौ । तौ द्वौ रामकृष्णौ । उपलक्ष्य । सर्वा गोप्यः । अनन्यवशाः अनन्यायत्ताः, तदुभयमात्राधीनाः । बभूवुः। ‘वशो जनस्पृहायत्तेष्वायत्तत्वप्रभुत्वयोः' इति वैजयन्ती ॥६९॥ गोपायमाने पुरुषे परस्मि गोरूपतां वेदगिरो भजन्त्यः । भव्यैरसेवन्तं पदं तदीयं स्तोभप्रतिच्छन्दनिभैः स्वशब्दैः ॥ ७० ॥ गोपायमान इति । परस्मिन्पुरुषे परमात्मनि । गोपायमाने गोपवदाचरति सति । ‘कर्तुः क्यड् सलोपश्च' इत्याचारार्थे क्यड़ प्रत्ययः । वंदगिरः । गोरूपतां गवाकारताम् । 'त्वतलोगुणवचनस्य' इति पुवद्भाव । संज्ञाजातिव्यतिरिक्ता गुणवचना इत्याहु.। भजन्त्य आश्रयन्त्य. सत्यः । स्तोभप्रतिच्छन्दनिभैः सामवेदे ऋगक्षरव्याप्तसामभागपूरणार्थी 'हा उहा उ' इत्यादयः शब्दाः स्तोभाः, तत्प्रतिच्छन्दनिभैः अर्थराहित्येन तत्प्रतिबिम्बैरिव स्थितैः । उपमोपक्रमोत्प्रेक्षायामिवोत्प्रेक्षायामपि निभ शब्दप्रयोगः । भव्यैः शुभैः । स्वशब्दैः । तदीय पदं असेवन्त । नन्दकुले गवाकृत्या वेदगिरोऽवतीर्य हम्बारवैर्भगवच्चरणसेवामकुर्वन्नित्यर्थः ॥ अबालिशो बालिशवत्मजानां प्रख्यापयन्नात्मनि पारतन्त्र्यम् । न्यदर्शयद्विश्वपतिः पशूनां बन्धे च मोक्षे च निजं प्रभुत्वम् ॥ ७१ ॥