२०२ यादवाभ्युदये आघानवनिमरण्यभागे वारण्यकैराश्रितधेनुभावैः। केनापि तस्यापहृतं किरीट प्रत्याहरन्पैक्षत पत्रिनाथः ॥ ८१ ॥ आघ्रातेति । अरण्यभागेषु अरण्यप्रदेशेषु । आश्रितधेनुभावैः धेनुभावमाश्रित्य चराद्भ.। आरण्यकैः अरण्यगेयैर्वेदान्तभागैः। आघ्रातवमान आघ्रातमार्ग, कृष्णमिति शेष । नन्दबजे धेनुभावमाश्रित्य कृष्णसेवार्थ चरन्तो वेदान्ताः कृष्णे परब्रह्मणि तात्पर्यगौरवात्तस्य गमनमागमप्यजिघ्रनिति भावः । तस्य कृष्णस्य । केनापि दैत्येन । अपहृतम् । किरीट मकुटम् । प्रत्याहरन् कृष्णायार्पयितु ततो दैत्याद्गृहीत्वा पुनराहरन् । पत्रिनाथो गरुडः । प्रेक्षत अपश्यत् । कृष्णाय मकुटमर्पयितुमेव तमन्विष्यागच्छस्त दृष्टवानित्यर्थः । पुरा क्षीरार्णवे निद्राणस्य पुरुषोत्तमस्य किरीट बलिनापहृत गरुडेन पुनस्ततो गृहीत्वा कृष्णावतारे प्रत्यपितमिति पौराणिकी कथा ॥ ८१ ॥ देवस्य दुग्धोदशयस्य दैत्या द्वैरोचनाव्यालभुजोपनीतः ।। कृष्णस्य मौलौ कृतबर्हचूडे न्यस्तः किरीटो निबिडीवभूव ।। ८२ ॥ देवस्येति। वैरोचनात् विरोचनसबन्धिनस्तत्पुत्रात् । दैत्यात् बलेः । विरोचनशब्दात्सबन्धसामान्येऽण् प्रत्ययः । व्यालभुजा सर्पभोजिना गरुडेन। उपर्नातः । दुग्धोदशयस्य क्षीरोदशायिनः परमपुरुषस्य । किरीटः ।