पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०३
चतुर्थः सर्गः।

'किरीट पुनपुसकम्' इत्यनुशासनात्पुलिङ्गता । कृतबर्हचूडे रचितवींवतंसे । कृष्णस्य । मौलौ शिरसि । न्यस्तः निहितः सन् । निबिडीबभूव क्षीरोदशायिमौल्यनुगुणाकारतया स्वतः अनिबिडोऽपि कृष्णमौल्युचितमाकारमाश्रित्य निबिडो बभूव । “अभूततद्भावे-” इत्यादिना च्चिप्रत्ययः ॥ ८२ ॥ समाहितैरग्निषु यायजकै राधीयमानानि हवींपि भोक्ता । भक्तैकलभ्यो भगवान्कदाचि त्पनीभिरानीतमभुङ्ग भोज्यम् ।। ८३ ॥ समाहितैरिति । समाहितः एकाग्रचित्तै । यायजूक: इज्याशील. । 'इज्याशीलो यायजूकः' इत्यमर । अग्निषु आवनीयादिषु । आधीयमानानि । वीषि चरुपुरोडाशादानि । भोक्ता भोजनशीलवान् । ताच्छील्ये तृन्प्रत्ययः । अत एव तद्योगे द्वितीया । भक्त कलभ्यः भक्तमात्रलभ्यः । शिवभागवतवत्समासः । भगवान् वृष्ण. । कदाचित् जातु । पत्नीभिः केषांचिदारब्धयज्ञानामृषीणां पत्नीभि । आनीत उपहतम् । भोज्य पायसादिकम् । अभुक्त भुक्ते स्म । भगवान्विधिवदाहवनीया - दिषु हुत चरुपुरोडाशादि हविरेव भुक्ते इति स्वभावः । तदपि यज्व भिरेव होतव्य न पत्नीभिः । 'न पत्नी जुहुयात्' इति प्रतिषधात् । अथापि भक्तैकपक्षपातित्वात्प्रत्यक्षमेव पत्नीभिरानीत यत्किचिद्भाज्यमात्र भुक्तवानिति भावः । इय कथा भागवते वर्णिता। विभक्तधनेषु 'विभक्ता भ्रातरः' इतिवत्समाहितचित्तैरित्यर्थ समाहितरित्युत्तरपदलोपेन प्रयोग इत्याहुः ॥ ८३॥