पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०७
चतुर्थः सर्गः।

समाजनिति । गोभिः समम । व्रजान्त गोष्ठसमीपम् । 'अन्तोऽस्यवसित मृत्यौ स्वरूपे निश्चयेऽन्तिके' इति वैजयन्ती। दूरात्समावजन् । विश्वपतिः कृष्ण । दूरादुद्यन् आविर्भवन्नेव । विवस्वान् सूर्यः । पद्मिनीनामिव । गोपविलासिनीनाम् । उल्लासहेतुः प्रमोदहेतुः । बभूव । सूर्यपक्ष गावः किरणा., उल्लासो विकासः । व्रजान्तस्थाने तु प्राचीभागप्रतीतिरनुसतव्या ॥ ९ ॥ निवर्तयन्गोकुलमात्तवंशो मन्दायमाने दिवसे मुकुन्दः। प्रियादृशां पारणया स्वकान्त्या बावृतं व्यातनुतेव विश्वम् ॥ ९१ ॥ निवर्तयन्निति । दिवसे । मन्दायमाने मन्दीभवति सति । लोहितादित्वात्क्यः । आत्तवश गृहतिवणुवाद्य । गोकुल निवर्तयन्मुकुन्दः । प्रियादृशां गोपीलोचनाना पारणया तृप्तिकारिण्या । स्वकान्त्या। विश्व वर्हावृतमिव । व्यातनुत अकरोत ॥ ९१ ॥ बालं तरुण्यस्तरुणं च बाला स्तमन्वरज्यन्त समानभावाः । तदद्भुतं तस्य विलोभनं वा तस्यैव सर्वार्हरसात्मता वा ॥ ९२ ॥ बालमिति । बाल त कृष्णम् । तरुण्यः । तरुण तम् । बालाश्च । समानभावाः वयोवैषम्येऽपि समानवयस्का इव तुल्यभावाः सत्यः । अन्वरज्यन्त रज्यन्ते स्म । अत्र वनितानां त प्राप्य रक्ततापत्तिराख्या