पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२०८ यादवाभ्युदये यत इति इत्थभूताख्याने अनुशब्दः । अत एव ‘लक्षणेत्थभूताख्यान-' इत्यादिना तस्य कर्मप्रवचनीयसज्ञतया तद्योगे द्वितीया । तस्य बाल्यदशायां तरुण्यः तारुण्यदशायां बालाश्च समानवयस्का इव तस्मिन्नरज्यन्तेत्यर्थः । अद्भुत अन्यत्रैवमदर्शनादाश्चर्यम् । तत् अननुरूपवययामपि स्त्रीणामनुरञ्जनम् । तस्य । विलोभन वा तत्तदनुरूपाकारप्रदर्शनादिना प्रलोभनं वा । तस्यैव । सर्वार्हरसात्मता वा सर्वार्हः सर्वोचितः सर्वे. षामास्वादनीयो रसः ‘रसो वै सः' इति श्रुतिसिद्धो निरतिशयानन्द तद्रूपता वा, इत्थमिति निर्धारयितु न शक्यत इत्यर्थः । कार्यकारणयोरभेदोपचारात् तद्विलोभनमित्यादिसामानाधिकरण्यम् ॥ ९२ ॥ अवेदिषातां पृथुको पितृभ्यां तारुण्यपूर्णौ तरुणीजनेन । वृद्धौ पुरावृत्तविशेषविद्भिः क्लुप्तेन्द्रजालाविव रामकृष्णौ ॥ ९३ ।। अवेदिषातामिति । रामकृष्णौ। क्लुप्तेन्द्रजालौ ऐन्द्रजालिकाविव । पितृभ्या यशोदया नन्देन च । पृथुको अर्भको । अवेदिषातां अवगतौ । 'विद ज्ञाने' इति धातोः कर्मणि लुड् । तरुणीजनेन । तारुण्यपूर्णौ अवेदिषाताम् । पुरावृत्तविशेष विद्भिः भगवदवताराविमाविति इतिहासविशेष जानद्भिः । पुराणपुरुषतया वृद्धौ अवेदिषाताम् । यथैक एवेन्द्रजालिको नानारूपेण प्रतीयते, तथा गृहीतबुद्धयादिभेदेन बालादिरूपतया प्रतीतावित्यर्थः । उपमानुप्राणित उल्लेखालंकारः । एकस्यापि निमित्तवशादनेकधा ग्रहणमुल्लेखः ॥ ९३ ॥