पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०९
चतुर्थः सर्गः।

अथापदानं मदनस्य दातु मादातुमालोकयतां मनांसि । नवं वयो नाथसमं प्रपेदे गुणोत्तरं गोपकुमारिकाभिः ॥ ९४ ॥ अथेति । अथ zष्णस्य यौवनप्रादुर्भावानन्तरम् । गोपकुमारिकाभिः नन्दवजजाताभिः अप्सरोऽवताररूपाभिः । मदनस्य । अपदान पराक्रमम् । 'अपदान पराक्रमः' इति वैजयन्ती । दातुम् । आलोकयता मनांसि । आदातुं अपहर्तुं च । गुणोत्तरं कान्तिसौन्दर्यसौकुमार्यादिगुणभूयिष्ठम् । नाथसम कृष्णस्यानुरूपम् । नव वयः प्रथमयौवनम् । प्रपेदे प्राप्तम् । कर्मणि लिट ॥ ९४ ॥ अनङ्गसिन्धोरमृतप्रथिना रसस्य दिव्येन रसायनेन । महीयसी प्रीतिमवाप तासां योगी महान्यौवनसंभवेन ॥ ९५ ॥ अनङ्गेति। महान् योगी कृष्णः । एवमुक्त्वा महाबाहुर्महायोगेश्वरो हरिः । यत्र योगेश्वरः कृष्ण -' इत्यादिशास्त्रात् । अनङ्गसिन्धोः मदनमागरस्य । अमृतप्रथिन्ना अमृतभूमरूपेण अमृतवत्सारभूतेनेत्यर्थः । रसस्य शृङ्गाररसस्य । दिव्येन रसायनेन दिव्यरसायनवत्सद्यो रसोदयकरेणेत्यर्थः । तासां गोपकुमारिकाणां स्वार्थमवतीर्णानाम् । यौवनसभवेन यौवनोदयेन । महीयसीं महत्तराम् । प्रीतिम् । अवाप । महान्योगी