पपातेति । स दैत्यः प्रलम्बनामा । तन्मुष्टिना दिव्युत्पतनानन्तरमसुर इति ज्ञात्वा तस्य बलदेवस्य मुष्टिना । ताडितः अभिहतः ततः शीर्णमौलिश्च सन् । पूर्व पर्वतानां पक्षच्छेदसमये । महेन्द्रहस्तप्रहितेम इन्द्रकरविसृष्टेन । वज्रेण । निर्भिन्नः । अचलेन्द्रः पर्वतवर इव । सहसा । भूमौ । पपात ॥ १०६ ॥ स्ववामसा क्लुप्तकलङ्कलक्ष्मीः कान्त्या दिशश्चन्द्रिकयेव लिम्पन् । रराज रामो दनुजे निरस्ते त इवोडुराजः ॥ १०७ ॥ स्ववाससेति । दनुजे प्रलम्बासुरे । निरस्ते सति । खवाससा स्वकीयेन नीलाम्बरेण । क्लप्तकलङ्कलक्ष्मीः कृतकलशोभः । कान्त्या देहकान्त्या । चन्द्रिकयेव । दिशा लिम्पन् । रामः । स्वर्भानुना राहुणा । मुक्तः प्रसनानन्तर विसृष्टः । उडुगज. चन्द्र इव । रराज। क्लुप्तकलङ्कलक्ष्मीरित्यत्र क्लप्माः कलङ्कस्य लक्ष्म्यो यस्मिन्निति शोभावहुत्वाभिप्रायेण व्याख्येयम्। अन्यथा लक्ष्मीशब्दस्यैकवचनान्तस्य उरःप्रभृतिषु पाठात्समासान्तनियम स्यात् ॥ १०७ ॥ विनैव रामेण विभुः कदाचि संचारयन्धेनुगणं सवत्सम् । वनश्रिया दूरविलोभिताक्षः कंचिद्ययो कच्छमदृष्टपूर्वम् ॥ १०८ ।। अथ कालियमर्दनमुपोद्धातेन प्रस्तौति- विनैवेति । कदाचित्
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२७०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१६
यादवाभ्युदये