प्रदोषसिन्दुरितमम्बुवाह पाचेतसो नाग इवोपमृगन् ।। ११८ ।। फणेति । फणानां य मणयस्तेषाम् । प्रभया उपरक्ते। चक्रिणि सर्प । 'चक्री व्याल सगरप.' इत्यमर । खेलन् क्रीडन् । चक्रपाणः कृष्णः । प्रदोषेण सिन्दूग्निं सजानसिन्दूर प्रदोषारुणितमिति यावत । अम्बुवाह मेघम् । उपमृदन प्रमनन् । प्रावतमो वारुणः । नाग पाश्चात्यो दिग्गज इव । बभौ ॥ ११८ ॥ प्रणेमुषां प्राणभृतामुदीर्ण मनो विनेष्यन्विषमाक्षवतम् । अकल्पयत्पन्नगमर्दनेन प्रायेण योग्यां पतगेन्द्रवाहः ॥ ११९ ।। प्रणेमुषामिति । पतगेन्द्र पक्षिराजः वाहः वाहन यस्य म श्रीकृष्णः । ‘वाहो ना यानेऽश्वे वृषभेऽपि च' इति रत्नमाला । प्रणेमुषां प्रणाम कृतवताम् । छन्दसि भूते लिटः क्वसु. । अत एकहलित्यादिना एत्वमभ्यासलोपश्च । विनयनक्रियापेक्षयेद भूतत्वम् । कवयस्तु बहुल प्रयुब्बत इत्युक्ते: भाषायामपि कसु साधुः । प्राणभृतां प्राणिनाम् । उदीर्ण उद्गत उद्वृत्तमिति यावत्। गत्यर्थात् ऋधातोः कर्तरिक्ते ऋत इदितीत्वे हलि चेति दीर्घ निष्ठानत्वम्। विषमाणि विषमसख्याकानि अक्षाणि इन्द्रियाण्येव वक्त्राणि मुखानि यस्य तादृशम् । ‘अक्षमिन्द्रियमक्षो ना रथाङ्गव्यवहारयोः' इति रत्नमाला । इन्द्रियाणां विषमत्व ज्ञानेन्द्रियविवक्षया 'चक्षुरायुक्तविषय परतन्त्र बहिर्मनः' इत्याद्यनुरोधेन ज्ञानेन्द्रियाणामेव मनोवक्रत्वौचित्यात् । 'दशेन्द्रियानन घोरं यो मनो रजनीचरम् ।'
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२७६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२२
यादवाभ्युदये