________________
चतुर्थः सर्गः । २२३ इत्याद्यनुरोधन दशेन्द्रियाननत्वनिर्वन्धे तु विषमाणि भिन्नभिन्नविषयप्रवत्तानीत्यर्थः । शिष्ट प्राग्वत् । इद च विशेषणद्वय पन्नगे मनस्साधर्म्यसपादनार्थम् । पन्नगोऽपि हि उदीर्णश्च । विषमाणि क्रूराणि अाणि नेत्राणि येषु तादृशानि वक्राणि यस्येति विषमाक्षवक्रश्च भवति । बहुव्रीही सक्थ्यक्ष्णोः स्वाङ्गादिति षच। 'तस्याक्षिभिर्गरलमुद्रुमतश्शिरस्सु यद्यत्समुन्नमति निश्वसतो रुषांच्चै ।' इति श्रीभागवतोक्ल्या कालिये बहुवक्त्रत्वस्य अक्ष्णां करत्वस्य च स्पष्टत्वात् । साधर्म्यसपादन तु पन्नगे योग्याप्रतिपादनसिद्ध्यर्थ। यदाह सुश्रुत.। तस्मात्कौशलमन्विच्छन्शस्त्रक्षाराग्निकर्मसु । यस्य यत्रेह साधर्म्य तत्र योग्यां समाचरेदिति । मन. मानस कर्म जातावेकवचनम् । प्राणभृतामिति बहुक्तेः । विनेष्यन् सन् विनय प्रापयिष्यन् सन् अमार्गानिवर्तयिष्यन् सन्निति यावत् । अम्य चाकल्पदित्यनेनान्वय । पन्नगस्य उद्रिक्तस्य विषमष्टिवक्रस्य कालियस्य मर्दनेन पीडनेन । योग्यां अभ्यास मनोविनयने कौशलसपादनार्थ तदभ्यासमिति यावत् । प्रायेणाकल्पयत् अकल्पयदिवेत्युत्प्रेक्षा । प्रायेणेत्युत्प्रेक्षाव्यन्जकः । 'मन्य शङ्के ध्रुव प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षाव्यज्यते शब्दैरिव शब्दोऽपि तादृश ' इत्यत्र आदिपदेन प्रायेणेत्यस्यापि ग्रहणात् । यथा हि लोके कश्चित् क्वचिद्वस्तुनि कर्तव्ये स्वव्यापारे कौशलसपादनाय नद्वस्तुसदृशे वस्त्वन्तरे तस्यैव व्यापारस्य अभ्यास करोति तद्वत् विनतानां उदिक्ते मनसि विनयनव्यापार करिष्यन् तत्कौशलसपादनार्थ मनस्तुल्ये पन्नगे मर्दनाभ्यास कृतवानिवेति भावः । अन्यदायाह सुश्रुतः । सुबहुश्रुतोऽप्यकृतयोग्यः कर्मस्व योग्यो भवतीति । योग्याशब्दस्तु श्रीमद्रामायण अस्त्रयोग्यान्तरेष्वपीत्यत्र प्रयुक्तः । पतगेन्द्रवाह इति विशेष्यं पनगमर्दनसामाभिप्रायगर्भमिति परिकराङ्कुरोऽपि । अत्र यद्यपि प्रायेण योग्यमित्येव पाठो दृश्यते। योग्य क्लीबे पूपयानचन्दनाभ्यासवाचकम् । प्राणोपायवच्छक्तयोगाहेष्वप्ययं