पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२८
यादवाभ्युदये

अवधूतभुजङ्गसङ्गदोषा हरिणा सूर्यसुता पवित्रिता च । अपि तत्पदजन्मनः सपल्या बहुमन्तव्यतरा भृशं बभूव ॥ १२७ ।। इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेकटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये काव्यरत्ने ___ चतुर्थः सर्गः॥ अवधूतेति । हरिणा । अवधूतभुजङ्गसङ्गदोषा निरस्तकालियससर्गरूप दोषा । पवित्रिता च स्वयमवगाहनेन पावनीकृता च । सूर्यसुता यमुना । तत्पदजन्मनः तस्य हरेः पदाजन्म यस्यास्तस्याः । सपत्न्याः गङ्गाया अपि । भृश अत्यर्थम् । बहुमन्तव्यतरा अतिशयेन बहुमन्तव्या। बभूव । दोषनिरसनेन गुणसपादनेन भगवत्परिग्रहात्तत्पादभवत्वमात्रेण तदीयत्वाभिमानवत्या गङ्गाया अपि बहुमानास्पदमभूदित्यर्थः । यद्यपि समानाधिकरणानामेव बहुव्रीहिरिष्यते, तथापि जन्मन उत्तरपदत्वाद्वयधिकरणबहुव्रीहि । 'अवो बहुव्रीहिय॑धिकरणो जन्माद्युत्तरपदः' इति वामनसूत्रात् । औपच्छन्दसिकं नामैतवृत्तम् ॥ १२७ ॥ इति श्रीमद्भारद्वाजकुलजलधिकौस्तुभश्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरिवरसूनुना अप्पय्यदीक्षितेन विरचिते यादवाभ्युदयव्याख्याने चतुर्थः सर्गः॥ श्रीमते वेदान्तगुरवे नमः ।