मलयाद्रिकटकनिकटे विन्ध्य इवाभाति यज्जयस्तम्भः ।
अद्यापि नागतोऽसीत्यगस्त्यमनुयोक्तुमन्तिकोन्मग्नः ॥७॥
अभिभवति कालमेघं रविकरनिकरं तिरस्कुरुते ।
यद्दानवारिसागरजन्मा जगदद्भुतो यशश्चन्द्रः ॥ ८ ॥
सूक्तिमयैः स्वप्रभवैरमृतैराप्याययन् सदा विबुधान् ।
कुलकूटस्थस्येन्दोराचारं योऽनुवर्तते धीरः ॥ ९ ॥
साहित्यगोष्ठीं सरसामातिष्ठन्नयमेकदा ।
यादवाभ्युदयं काव्यमश्रौषीद्विदुषां मुखात् ।। १० ।।
अव्याख्याततया पूर्वैरनभिव्यक्तभावकम् ।
अघृष्टमिव शिल्पज्ञैरभिजातं हरिन्मणिम् ॥ ११ ॥
तदाकर्णनतः सद्यः समुदञ्चत्कुतूहलः।
विदुषां पुरतस्तस्य विवृतौ मां न्ययोजयत् ।। १२ ।।
कवितार्किकसिंहस्य काव्यमेतद्यथामति ।
विवृणोमि महीपालनियोगबहुमानतः ॥ १३ ॥
तत्र तावत् “आशीर्नमस्किया वस्तुनिर्देशो वापि तन्मुखम् ।” इति शास्त्रमनुसृत्य विशिष्टेष्टदेवतानमस्कारलक्षण मङ्गलमाचार्यः प्रथमश्लोके निबध्नाति-
वन्दे बृन्दावनचरं वल्लवीजनवल्लभम् ।
जयन्तीसंभवं धाम वैजयन्तीविभूषणम् ॥ १ ॥
वन्द इति । बृन्दावनं नाम मथुरोपकण्ठे वनविशेषः तत्र चरतीति बृन्दावनचरम् “चरेष्टः” इति टप्रत्ययः । “तत्पुरुषे कृति बहुलम् ।"