इत्यलुग्विधानस्य बाहुलकत्वात् सुपो लुक् । वल्लव्यो गोपजातिस्त्रियः ।
वल्लवशब्दाजातिलक्षणो डीष् । वल्लव्य इति जना वल्लवीजना इति कर्म-
धारयः । स्त्रीलिङ्गस्य परनिमित्तस्याभावात् "पुवकर्मधारय" इत्यादिना
वल्लवीशब्दस्य न पुवद्भावः । तेषां वल्लभं “सत्यवागार्जवरतैरुपकुर्वन्
प्रिय वदन्। भजते यः स्वयं पूर्णः प्रियः स भवति स्त्रियाः।” इत्युक्तलक्षण
प्रियम् । “दयित वल्लभ प्रियम् ।" इत्यमरः । जयन्ती रोहिणीसहिता
श्रावणमारास्य कृष्णाष्टमी “जय पुण्यञ्च तनुते जयन्ती तेन ता विदुः।"
इति पौराणिकैर्निरुक्ता । पृषोदरादित्वात् साधुः । तस्यां सम्भव प्रादुर्भूत
भवतेः पचाद्यच् । “अज्विधिस्सर्वधातुभ्यः” इति वचनात् । सप्तमीति
योगविभागात् समागः । वैजयन्ती वनमाला सा विभूषण यस्य तथाभूत ।
धाम स्वप्रकाशज्योतिर्मय वस्तु वासुदेवाख्यम् वन्दे प्रणमामीति योजना।
चन्द इति वर्तमाननिर्देशः स्ववन्दनस्य सदानुवृत्तिपरः, न तु प्रबन्धारम्भ-
समयवर्तमानत्वमात्रपरः । सङ्कोचे हेत्वभावात् । सकृत्प्रपदनमात्रेणाभीष्टप्रदे
भगवति सतां भक्तिवशात्तदनुसन्धानविशेषरूपस्य मानसनमस्कारस्य
सदानुवृत्तेः । विशेषणबलादेव भगवान्वागुदेवो विशेष्य लभ्यत इति
विशिष्य विशेष्यानिर्देशः । यथाह वामनः “विशेषणमात्रप्रयोगो
विशेष्यप्रतिपत्तौ” इति । भगवतस्सुखसेव्यत्वोपयुक्ताश्चत्वारो गुणाः
वात्सल्य, सौशील्य, सौलभ्य, स्वामित्वमिति । तत्र वात्सल्य वत्से धेनो-
रिव स्नेहः । सौशील्य महतो मन्दैः सह नीरन्ध्रसश्लेषस्वभावः । सौलभ्यं
लब्धु सुशकत्व सुखेन सन्निधानदातृत्वम् । स्वामित्व स्वकीयत्वाभिमानः।
वात्सल्येन सेवकस्य स्वापराधभयम्, सौशील्येन परमेश्वरताप्रयुक्तानभि-
गम्यत्वभयम् , सौलभ्येन ‘न सन्दृशे तिष्ठति रूपमस्य' इत्यादिवेदान्तवा-
क्यश्रवणकृतागोचरत्वभयम्, स्वामित्वेन वात्सल्यादिमूलभूतसंबन्धाभावभ-
य च निवर्त्यत इत्येतेषां सुखसेव्यत्वे उपयोगः । क्रमेण एते गुणाः विशेषण-
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/४७
एतत् पृष्ठम् परिष्कृतम् अस्ति
३
प्रथमः सर्गः