"शृङ्गारवीराद्भुतचित्रमन्तस्तस्यात्रिलोकैकनिधिं वहन्त्या।" इति । तत्र वीररसः प्रधानभूतः, भूभारावतरणार्थत्वादवतारस्य। तत्प्राधान्यं द्योतयितुं तद्व्यञ्जकविशेषणं विशेष्यसन्निहितं कृतं "जयन्तीसंभवं धाम” इति । एव अवान्तरप्रयोजनं विशेषणत्रयेण विभाव्यते । परमप्रयोजनं च वैजयन्ती- विभूषणमित्यनेन कृष्णस्य परब्रह्मत्वरूपत्वाभिव्यक्त्या काव्यस्य परब्रह्म- गोचरतया पुण्ड्रेक्षुभक्षणवेतनतुल्य मुक्तिरूप सूच्यते, परब्रह्मसशीलनस्य मुक्तिपर्यवसायित्वादिति । एव विशेषणानां साभिप्रायत्वात्साभिप्राय- विशेषणविन्यासरूपः परिकरो नामार्थालङ्कारः । वन्दे बुन्देति वल्लवीवल्लभ- मिति जयन्ती वैजयन्तीति च पदेषु वर्णसमत्वाद्वर्णसमत्वरूपोऽनुप्रासः शब्दालङ्कारः । यमकत्वप्रयोजकस्थाननियमाभावादत्र न क्वापि यमक- शङ्का । वन्द इति वर्तमानव्यपदेशेन प्रागुक्तरीत्या कवेर्भगवद्विषयो रतिभावो व्यज्यत इति भावध्वनिः । तेन तथाभूतमहापुरुषकृतकाव्यस्य नायकगौरवेणेव प्रबन्धृगौरवेणाप्युपादेयत्व व्यज्यत इति वस्तुध्वनिः । ततो नेतृप्रबन्धृगौरवेण फलोत्कर्षेण चास्य काव्यस्यानीदृक्काव्या- न्तरेभ्योऽतिशयो व्यज्यत इति व्यतिरेकालंकारध्वनिश्च । प्रसादा- दयो गुणाश्चात्र श्लोके यथासभव द्रष्टव्याः । भूदेवताकस्य मगणस्या- मृतबीजस्य वकारस्य च प्रथम प्रयोगाद्गणवर्णशुद्धिस्सुव्यक्ता। यद्यपि वन्द इति धातुरौत्तराहाणामोष्ठ्यादिः। “भ्वादौ स तु पवर्गीयादौ बाध- बन्दती” इति बकिष्पतिना पवर्गतृतीयादिरुक्तः । तथापि यथा शाड़ श्ला- घायामिति धातोर्धातुपाठे टवर्गतृतीयान्तत्वेऽपि डलयोरैक्यात् लोके रूपशाली भाग्यशालीत्यादी लान्त: प्रयोगः, एवं बवयोरेक्यात् अन्त- स्स्थादिरेव लोकेऽस्य प्रयोगः । माधवीयायां तु धातुवृत्तावय धातुपाठेऽ- प्यन्तस्स्थादिरङ्गीकृतः। यद्वा, काव्यारम्भप्रतिज्ञापरोऽयं श्लोकः । अस्मिन् पक्षे वन्दे स्तुवे । “वर्तमानसामीप्ये” इति लट्, स्तोष्य इत्यर्थः ।
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/४९
एतत् पृष्ठम् परिष्कृतम् अस्ति
५
प्रथमः सर्गः।