पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
प्रथमः सर्गः।


प्रवृत्तामनघे मार्गे प्रमाद्यन्तीमपि क्वचित् ।
न वाचमवमन्यन्ते नर्तकीमिव भावुकाः॥७॥

प्रवृत्तामिति । अघ पापं 'अघशब्दो भवेत् पापे दुःखव्यसनयो. रपि' इति अजयः। तद्विरुद्धः अनघः । अधर्मवनसमासः। अविरुद्धे तस्मिन् सकलपापक्षयकारिणि । मार्गे भगवचरितसग्रथनरूपे पथि । प्रवृत्तां वाच कविताम् । क्वचित् सूक्ष्मे भगवचरितरहस्यादिविषये शब्दार्थगुणदोपादि- विषये वा। प्रमाद्यन्तीमनवधानामपि । भावुकाः भावनाकृतो भगवद्भक्ताः। 'भुवोऽवकल्कने ' इति भवतेर्णिजन्तात् 'लपपत' इत्यादिना उकजप्रत्ययः । अवकल्कन चिन्तनमिति व्याख्यातम् नावमन्यन्ते क्वचित् प्रमादमात्रेण न तत्रावमान कुर्वन्ति किन्नु भगवद्विपय यथाकथञ्चित् अबद्धमपि निखि- लाघविध्वसनमिति परिगृह्णन्त्येवेत्यर्थः । उक्त व श्रीभागवते। ‘स वाग्विसों जनताघविप्लवो यस्मिन् प्रतिश्लोकमवद्धवत्यपि । नामान्यनन्तस्य यशोऽ. हितानि यत् शृण्वन्ति गायन्ति गृणन्ति साधवः ।' इति । नर्तकीमिवेत्युप- माननिर्देशः । अत्र पक्षे अनघे विगलितवेद्यान्तरनाट्यरसास्वादनेन दुःख- विरोधिनि । मार्गे मार्गो देशीति द्विधा नृत्तमुक्त सङ्गीतशास्त्रेषु । तत्र मार्गाख्ये नृत्ते। प्रवृत्तां नर्तकीमिव मार्गनृत्ते कृतशिक्षां वनितामिव । 'नर्तकः सुरभिः प्रोक्तो मार्गनृत्ते कृतश्रमः ।' इति सङ्गीतरत्नाकरः। शिल्पि- नि वुन्' इति वुन्प्रत्यये 'षिद्गौरादिभ्यश्च' इति डीए । भावुकाः तत्तद्भा- वचेष्टाविशेषज्ञाः । 'भावा विनैव चेष्टाभिन दृश्यन्ते कदाचन । तस्माच्चे- ष्टाविशेषज्ञा भावुका रसिकाः स्मृताः॥' इति शारदातनयः। अत्र मार्ग इति भावुका इति च भिन्नार्थशब्दानां युगपदुदारणात् श्लेषः । श्लिष्टपदो- पात्तयोरर्थयोरुपमायां सामान्यधर्मत्वसिद्धयर्थमभेदाद्धयवसायात्तन्मूला- तिशयोक्तिश्च । तदनुप्राणितश्च नर्तकीमिवेति उपमालङ्कारः ॥ ७ ॥