पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३
प्रथमः सर्गः


चित्रमालेख्यमिति श्लिष्टरूपकम् । 'आलेख्याश्चर्ययोश्चित्रम् ।' इत्यमरः । कृपारूषितया दयारसेन दिग्धया। क्रीडातूलिकया खलीलैव तूलिका आले. ख्यकूर्चितया। स्वयं स्वतन्त्रेण आत्मना । स्वस्मिन्नात्मन्यधिकरणे। अजी- जनत् जनयामास । जनिधातोर्णचि लुडो रूप । भूतसामान्यविवक्षया च लुप्रयोगः । अत्र स्वय स्वस्मिन्निति विशेषणद्वयेन भगवत प्रपञ्चनिमि- तोपादानोभयविधकारणत्व दर्शितम्। तस्य समाभ्यधिकराहित्य विभाव- यितु अनेककोटिब्रह्माण्डघटितस्यास्य प्राश्यस्य निर्माण सहायान्तरनैरपेक्ष्य दर्शितं एक इति । एतावत्प्रपञ्चनिर्माणे असहायस्य कर्तृत्वे असभावनां व्यावर्तयितु सर्वशक्तिमयत्व दर्शित विभुरिति। प्रकरणोपपदादिसङ्कोचरहित हि विभुपद तस्य निरतिशय वैभव प्रख्यापयति। नित्यावाप्तसमस्तकामस्य भगवतः प्रपञ्चनिर्माण प्रयोजनाभावादनुपपन्नमिति शङ्कां वारयितुमुक्त क्रीडातूलिकयेति । यथा सार्वभौमोऽवाप्तसकलकामोऽपि लीलया स्वय कन्तुकादिक करोति तथा भगवानपि प्रपञ्चभित्याशयः । ननु स्वस्य लीले- त्येतावता यदि जीवराशीनरकगर्भवासादिदु.खपङ्के निमज्जयति, तर्हि निष्करुण एव स्यात् । ततश्चास्य निखिलहेयप्रत्यनीकसमस्तकल्यागगुण- परिपूर्णत्वहानिरिति शङ्कां वारयितुमुक्त कृपारूषितयेति। न केवल लीलातूलि- कया जगन्निर्माति; किन्तु कृपारूषितया । अत एव मुक्त्युपायप्रतिपादका अपि वेदभागा उपदिष्टाः । तदुपयोगीनि कर्माणि । तनिर्वर्तकानि च ब्रीह्या- दीनि सृष्टानि । न हि जीवेषु नियाजनिरतिशयकृपाराहित्ये नित्यतृप्तः स्वय मुक्त्युपायकर्मादीन्युपदिशति । तथा निर्व्याजकृपालुत्वेऽपि निर्हेतुक मेव न मोचयति । स्वलीलायास्सर्वथैव विरोधप्रसङ्गात् । मोचकस्यापि भगवतो मुक्त्युपायधर्मसापेक्षत्वात् न वैषम्यनैघृण्ये, 'वैषम्य घृण्ये न सापेक्षत्वात् ' इति न्यायादिति भावः । नन्वेवविधो जगन्निर्माता पुरुषो- सम एवेत्यत्र किं प्रमाणमित्याकाङ्क्षायां पुरुषसूक्तं तत्र प्रमाणं विभाव-