पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
यादवाभ्युदये

यितुमुक्त श्रीमानिति । पुरुषोत्तम एव खलु श्रियः पतित्वेन प्रसिद्धः । पुरुषसूक्तानन्तरानुवाके च तदेकवाक्यतापने 'हीश्च ते लक्ष्मीश्च पत्न्यौ' इति प्रकृते जगनिर्मातरि पुरुषे श्रियः पतित्वं निबद्धम् । अतः सुरुषोत्तम एव जगनिर्माता सिद्ध्यतीत्यभिप्रायः। इत्थ विचिन्त्याः सर्वत्र भावाः सन्ति पदे पदे । कवितार्किकसिंहस्य काव्येषु ललितेष्वपि । तथापि विस्त- रापत्तेनैवमग्रं प्रपञ्च्यते । काव्यव्याख्याकृतां रीतिः प्राचामेवानुगम्यते ॥ एवं विशेषणानां विशेष्यस्य च साभिप्रायत्वात् परिकरपरिकरा- ङ्करालङ्कारौ । विशेषणसाभिप्रायत्व परिकरः, विशेष्यसाभिप्रायत्व परिक- रांकुर इति तयोर्भेदः । क्रीडातूलिकयेति रूपकम् । रूपणान्वयानुसारतश्च क्रीडायास्तूलिकात्वारोपेण कृपाया रूषिकाया रागद्रव्यत्वारोपो गम्यत इत्येकदेशवृत्तिरूपकालङ्कारः। अनेन रूपकेणोत्थापित च चित्र- शब्दे श्लिष्टरूपकमिति तेनास्य सकरः ॥ ९ ॥

जगदाह्लादनो जज्ञे मनसस्तस्य चन्द्रमाः ।
परिपालयितव्येषु प्रसाद इव मूर्तिमान् ॥ १० ॥

जगदिति। तस्य पुरुषोत्तमस्य। मनसो मानसात् । जगदाह्रादनः लोकानामाहादयिता । बहुलग्रहणात् कर्तरि ल्युट्। चन्द्रमाः चन्द्रः। परिपा- लयितव्येषु रक्षितव्येषु । मूर्तिमान् प्रसाद इव तन्मनसः कृतज्ञत्वादिगुण- स्तोम इव । जज्ञे जातः । जनिधातोः कर्तरि लिट् । 'गमहनजनखनघसां लोपः विडत्यनडि ' इत्युपधालोपः । चन्द्रमसः जगदाह्लादनत्वादिनिमित्तेन भगवन्मनःप्रसादतादात्म्यसंभावनादुत्प्रेक्षालङ्कारः । ‘कृतज्ञतोपकर्तृत्वं भूयो दोषानभिज्ञता। एष प्रसादश्चित्तानो लक्षणहरुदाहृतः ॥' इति शारदातनयः । यद्यपि श्रीविष्णुपुराणादिषु चन्द्रवंशोपक्रमे तस्यात्रिभवत्व- मुक्तम् ; तथापि चन्द्रवंश्यानां राज्ञां आभिजात्यातिशयज्ञापनार्थ 'चन्द्रमा