पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
यादवाभ्युदये


समवर्द्धतेति । तद्वशः तस्य चन्द्रमसो वशोऽन्वयः स एव वंशो वेणुः। उपर्युपरि उत्तरोत्तरम् । पर्वभिः पुरूरवसः आयुः, ततो नहुषः इत्या- दिप्रकारेणोत्पन्ना राजान एव पर्वत्वेनाध्यवसीयन्ते तैः । रामवर्द्धत सम्य- ग्वर्द्धते स्म । यस्य वशस्य, यशांस्येव मुक्ताफलानि तैः । दश दिशः प्रा- च्यादयोऽष्टौ ऊमधश्चेति दश दिशः। विभूषिताः अलकृताः। वंशकाण्डेभ्यो मुक्ताफलान्युत्पद्यन्त इति प्रसिद्धिः । स वंशः समवर्धतेति पूर्वेणान्वयः । उत्तरवाक्यगतो यच्छब्दः कुलकश्लोकेष्विव पूर्ववाक्ये तच्छब्दप्रयोगानपेक्ष एव पूर्ववाक्यान्वयीति तदप्रयोगः । तदुक्त काव्यप्रकाशिकायाम् ‘यच्छब्द- स्तूत्तरवाक्यार्थगतत्वेनोपात्तः सामर्थ्यात् पूर्ववाक्यार्थगतस्य तच्छब्दस्योपा- दानं नापेक्षते' इति । अत्र भूषितत्व मुक्ताफलैरेव सभवतीति रूपकस- मासे सति तदुत्थापिते च वशशब्दश्लेषे श्लिष्टशब्दनिबन्धनपरं- परितरूपकालङ्कारः ॥ १२ ॥

बभूव नहुषस्तस्मिन्नैरावत इवाम्बुधौ ।
यमिन्द्रविगमे देवाः पदे तस्य न्यवीविशन् ॥ १३ ॥

बभूवेति। तस्मिन् वशे। अम्बुधौ सागरे । ऐरावत इव नहुषः बभूव । य नहुषम् । इन्द्रस्य शक्रस्य विगमे अपगमेसति। तस्य इन्द्रस्य । पदे स्थाने। देवाः अग्न्यादयः । न्यवीविशन् निवेशयन्ति स्म । विशतेर्णिजन्ताल्लुड् । उपमालङ्कारः । त्वाष्ट्रवधरूपब्रह्महत्यादोषानष्टप्रभाव क्वापि निलीने शके तदन्ये देवाः सम्भूय भुवि राज्य प्रशासत नहुष क्रतुशतयाजिन तत्पदोचितं विचिन्त्य तस्य पदेऽभ्यषचयनिति भारतकथात्रानुसन्धेया। इन्द्रविगम इति समासे गुणभूतस्यापीन्द्रस्य तस्येति सर्वनाम्ना परामर्शो युक्तः । तदाह वामनः 'सर्वनान्नानुसन्धिर्वृत्तिच्छन्नस्य' इति ॥ १३ ॥