पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
यादवाभ्युदये


प्रकाशे संभाव्ये' इति रनमाला । उत्साहात् स्थायिभावात् । वीरो वीराख्यो रस इव । अभ्यजायत। 'भावोत्कर्षो रसः स्मृतः।' इति रसस्य स्थायिभावावस्थाविशेषत्वस्मृतेः तयोः कार्यकारणभावोक्तिः । सेन यया- तिना। ऐन्द्रं इन्द्रसंबन्धि । अर्धासन आसनस्यार्धे । 'अर्धे नपुंसकं' इति समासः । अधिष्ठित उपविष्टम् । इन्द्रस्यार्धासने ययातिना चिरं निविष्ट- मिति महाभारतकथात्रानुसन्धेया। उपमालङ्कारः ॥ १६ ॥

विशालविपुलोत्तुङ्गे यदाहुशिखरान्तरे ।
आसीद्वीवारश्रिया सार्धं भूमिरर्धासने स्थिता ॥ १७ ॥

विशालेति। विशाल परिणाहि विपुल पृथुल उत्तुङ्ग उन्नतं चेति खञ्जकुब्जवद्विशेषणसमामः । ‘विपुल पृथुले भावे मेरुपश्चिमभूधरे।' इति विश्वः। एवभूते । यस्य ययातेः बाहुशिखरान्तर स्कन्धावकाशे । 'स्कन्धो भुजशिरोऽसोऽस्त्री' इत्यमरः । वीरश्रिया सार्द्धम् । भूमिः । अ‘सने । स्थिता। आसीत् । शौर्यलक्ष्मीः भूमिश्चोभे अपि अस्य भुजशि- खर एवं विश्रान्से इत्यर्थः ॥ १७ ॥

निदेशं तस्य राजानो न शेकुरतिवर्तितुम् ।
प्राप्तस्वपरनिर्वाहं प्रमाणमिव वादिनः ॥ १८ ॥

निदेशमिति । तस्य ययातेः । निदेश आज्ञाम् । अतिवर्तितुं अतिल. चितुम्। राजानः प्रतिपार्थिवाः । न शेकु: न शक्नुवन्ति स्म । प्राप्तवपर- निर्वाह प्राप्तः स्वस्य वादिनः परस्य प्रतिवादिनश्च निर्वाहो यस्मिन् तत् उभयनिर्वाह्यम्। प्रमाणम् । वादिनो वावदूका इव । यथा वादिना स्वोक्तार्था- नङ्गीकारे उभयनिर्वाह्यप्रमाणविरोधापादने कृते प्रतिवादिनस्तत्प्रमाणमति- वर्तितु न प्रभवन्ति तद्वदित्यर्थः । प्राप्तस्वपरनिर्वाहमित्युपमेयस्यापि विशे-