षणम् । तत्र पक्ष, स्वस्य निदेष्टुः परेषां म्वसुहृदादीनां च कार्यनिर्वाहक-
मित्यर्थः ॥ १८॥
तटाकमिव तापार्तास्तमिन्द्रमिव निर्जराः ।
भावा इव रसं भव्याः पार्थिवाः पयुपासत ॥ १९ ॥
तटाकामति । त ययातिम् । पार्थिवाः प्रतिभूपतयः । तटाकम् । नापातीः आतपक्लिष्टा इव । इन्द्र निर्जरा इव। रस शृङ्गारादिम्। भव्याः तद्र. सयोग्याः । 'भव्य सत्ये शुभे चाथ भव्यवद्योग्यभाविनोः।' इति विश्वः । भावा. विभावानुभावस्थायिसञ्चारिभावा इव । पर्युपासत परित आसेवन्त । तटाक इति कवर्णान्तत्वेन प्रसिद्धः । कवर्गतृतीयान्तेषु तु विश्वप्रकाश- न रत्नमालाकारेण च पाठन. । फेचित तड आघात इति धातूत्पन्नतया मध्यमाक्षरमपि टवर्गतृतीयमाहु. । इदमत्रानुसन्धेयम् । ‘रतिस्मश्च शोकश्च क्रोधोत्साही भय तथा। जुगुप्साविस्मयशमाः स्थायिभावा. प्रकीर्तिताः । कारणान्यथ कार्याणि सहकारीणि यानि च । रत्यादः स्थायिनो लोके तानि चनाट्यकाव्ययोः । विभावा अनुभावाश्च कथ्यन्त व्यभिचारिणः ।' तत्र शृङ्गारस्य रतिः स्थायिभावः । रतेरानन्दात्मतया स्थायिन्या. नाट्यकाव्ययोरभिनीयमाननिबध्यमानर्विभावादिभिराहितप्र- सादायाः नाररूपेणाभिव्यक्तः । आभिरूग्यादिशालिनौ स्त्रीपुसावालम्बन- विभावौ, तयोः परस्पर रतिभावादौ कारणत्वात् । पुरहर्म्यचन्द्रोदयमलय- मारुतकोकिलालापादयः उद्दीपनविभावाः, अडरितरतिभावोद्दीपनहेतुत्वा- त् । नयनान्तावलोकनहसितभुजवल्लीवेलनादयो मधुरव्यापाराः अनुभावाः, तेषां रतिभावकार्यत्वात् । 'निर्वेदग्लानिशङ्काश्रमधृतिजडताहर्षदैन्यौग्यचि. न्तात्रासेष्यामर्षगाः स्मृतिमरणमदाः सुप्तिनिद्रावबोधाः। ब्रीडापस्मारमा- हास्समतिरलसता वेगतकावहित्था व्याध्युन्मादौ विषादौत्सुकचपलयुता-