पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३
प्रथमः सर्गः।


विग्रहेण वृद्धिः । 'त्रिदिवेशा दिवौकसः ।' इति नामलिङ्गानुशासनेऽपि । युक्तदण्डं तत्तदपराधोचितदमनम् । अमित्राणां शत्रूणाम् । कृतान्तं कृत- विनाशम् । समवर्तिनं प्रजासु समवर्तनशीलम् । दक्षिण राज्यशासने प्रवी- णम्। लोकपालं नरलोकपालम् । अमन्यन्त मन्यन्ते स्म बहुमेनिर इत्यर्थः । दक्षिणं लोकपालमित्यनेन वैवखतमित्यपि प्रतीयते । तत्र पक्षे, युक्तः समेतो दण्डाख्य आयुधविशेषो यस्मिन्निति योज्यम् । कृतान्तं समवर्ति- नमित्यनयोस्तु पूर्ववदेवार्थः । विशिष्टनामनी चैते वैवखतस्य । एवं वर्ण- नीयराजान्वयिन एवार्थद्वयस्य प्रतीतेः श्लेषालङ्कारः । द्वितीयार्थे युक्तदण्डत्वादिलिङ्गेन दक्षिणलोकपालत्वमनुमीयत इत्यनुमानाल- ङ्कारः ॥२५॥

यशःप्रसूनसुरभिर्यदुसन्तानपादपः ।
बभूव विबुधप्रीत्यै बहुशाखः क्षमातले ॥ २६ ॥

'यश इति । यशांस्येव प्रसूनानि तैस्सुरभिः सुगन्धिः । प्रसवगन्धे- नेव यशःप्रसरणेन दूरेऽपि ख्याप्यमानत्वात् सुगन्धित्वारोपः । बहुशाखः बह्वयः शाखाः वेदप्रभेदा यस्यस तथोक्तः अनेकवेदशाखाध्यायीति यावत् । पादपपक्षे बहुविटपः । यदुसन्तानपादपः यदुरेव सन्तानाख्यः सुरद्रुम- विशेषः, महावदान्यत्वात् । क्षमातले भूतले । तलशब्द: स्वरूपवाची । 'तलं खरूपाधरयोः' इति विश्वः । विबुधप्रीत्यै विदुषां प्रीत्यै। बभूव । प्रसिद्धो हि सन्तानपादपो दिवि विबुधानां देवानां प्रीत्यै भवति । अयं तु भुवि विबुधानां प्रीत्यै बभूवेति विशेष इति भावः । यद्वा यदुवंशपरत्वे. नायं श्लोको योज्यः । तत्र पक्षे, यदुसन्तान एव सन्तानपादप इति सन्ता- नपदे श्लेषः बहुशाख इति च । तत्र वृष्ण्यन्धकभोजाद्यनेकावान्तरसन्तति- प्रभेद इत्यर्थः, शाखाशब्दस्योपचारात् अवान्तरसन्ततिषु वृत्तेः। यशः-