पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५
प्रथमः सर्गः।


र्तितरजस्तमोगुणेति वा । अत एव, धर्मेच्छासवती धर्माभिवृद्धिमती । जगती भूमिः । 'जगती विष्टपे मह्याम्' इति विश्वः। शान्तमोहेव ततः पूर्व मूर्छामूनुभूय तदानीमपगतमूर्छव । बभौ । मूर्छितो हि स्तब्धश्वासो मूर्जात्यये सत्युच्छ्वसितीति भावः ॥ २९ ॥

स विष्णुरिव लोकानां तपनस्तेजसामिव ।
समुद्र इव रत्नानां सतामेकाश्रयोऽभवत् ॥ ३० ॥

स इति। स वसुदेवः । लोकानां विष्णुरिव । तेजसां तपन इव । रत्नानां समुद्र इव च । सतां सज्जनानाम् । एकः आश्रयः अभवत् । सकलसाधुजनोपजीव्योऽभवदित्यर्थः । मालोपमालंकारः ॥ ३० ॥

प्रख्यातविभवे पत्न्यौ तस्य पूर्व प्रजापतेः ।
रोहिणीदेवकीरूपे मनुष्यत्वे बभूवतुः ॥ ३१ ॥

'प्रख्यातेति । पूर्व प्रजापतेः काश्यपप्रजापतिरूपस्य । तस्य । प्रख्या- तविभवे प्रसिद्धमाहात्म्ये । पत्न्यौ सुरभिरदितिश्चत्युभे भार्ये । मनुष्यत्वे मनुष्यभावे । रोहिणीदेवकीरूपे । बभूवतुः ॥ ३१ ॥

अक्षुद्रगतिशालिन्योस्तयोरन्योन्यसक्तयोः।
ऐकरस्यमभूत्पत्या गङ्गायमुनयोरिव ॥ ३२ ॥

अक्षुद्रेति । अक्षुद्रगतिशालिन्योः अक्रूरबुद्धिशालिन्योः । शाल ग- ताविति धातोस्ताच्छीलिको णिनिः । नदीपक्षे अनल्पप्रवाहगमनभाजोरि- त्यर्थः । 'क्षुद्रस्स्यादधमक्रूरकृपणाल्पेषु वाच्यवत् ।' इति विश्वः। ‘गतिस्तु गमने मार्गे दशायां बुद्धयुपाययोः' इति रनमाला । अन्योन्यसक्तयोः अन्योन्यानुरक्तयोः, नदीपक्षे भन्योन्यसंसृष्टयोः । तयोः देवकीरोहिण्योः ।