पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६
यादवाभ्युदये


गङ्गायमुनयोरिव । पत्या वसुदेवेन सह । ऐकरन्यं तुल्यरागत्वं अभूत् । नदीपक्षे समुद्रेण सह एकोदकत्वं लवणरसैक्यं वा । 'रसो गन्धे रसा- स्वादे तितादौ विषरागयोः । शृङ्गारादौ द्रवे वीर्य देहधात्वम्भुपारदे ।' इति विश्वः । उपमालंकारः ॥ ३२ ॥

स ताभ्यामनुरूपाभ्यां समतुष्यत्समेयिवान् ।
व्यक्तिहेतुरभूद्येन सपर्यङ्कस्य शाङ्गिणः ॥ ३३ ॥

स इति । स वसुदेवः । अनुरूपाभ्यां शीलवृत्तादिभिः सुसदृशीभ्याम् । ताभ्यां रोहिणीदेवकीभ्याम् । समेयिवान् समेतस्सन् । 'उपेयिवानना- श्वान्' इत्यत्र उपसर्गग्रहणस्यातन्त्रत्वात् सम्पूर्वस्यापीणः कसुनिपातः । समतुष्यत् सन्तुष्टोऽभवत् । येन रोहिणीदेवकीसमवायन । सपर्यङ्कस्य शेष- पर्यकसहितस्य । शाह्मिणः शेषशायिनः । व्यक्तिहेतुः प्रादुर्भावे हेतुः । अभूत् ॥३३॥

अलिप्सत न साम्राज्यं सोऽर्थकामपराड्मुखः ।
यदृच्छागतमैश्वर्यमानृण्यरुचिरन्वभूत् ॥ ३४ ॥

अलिप्सतेति । अर्थकामपराङ्मुखः अर्थकामयोः पुरुषार्थयोर्विमुखः, धर्ममोक्षपरत्वात् । स वसुदेवः । साम्राज्य सम्राजो मण्डलेश्वरस्य भाव राज्याधिपत्यम् । नालि'सत लब्धं नैच्छत् । 'येनेष्ट राजसूयेन मण्डलस्ये. श्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राड्' इत्यमरः । आनृण्यरुचिः 'यज्ञेन देवेभ्यः प्रजया पितृभ्यः' इति श्रौतमृणं नास्ति यस्य सोऽनृणः तस्य भाव आमृण्यं तस्मिन् रुचिर्यस्य तथाभूतस्सन् । यदृच्छागतं अनिय- मेनागतं अयनेन दैवालब्धम् । ऐश्वर्यम् । अन्वभूत् अभुत । 'बच्छा- ऽनियमो भवेत् ।' इति वैजयन्ती ॥ ३४ ॥