अत एव, धर्मसेतुविभेदकैः धर्ममर्यादाभेजकैः । असख्यः सख्यारहितैः
निष्परिपन्थितया संख्येन युद्धेन रहितैर्वा । 'एकत्वादी विचारे च सख्या
सख्यं तु संयुगे।' इति रत्नमाला । तुङ्गैः शौर्येणोन्नतैः। अद्भुतै. आश्चर्य-
भूतैः। राक्षसपर्वतैः । क्रम्ये क्रान्ता भवामि। कमेः कर्मणि लडुत्तमपुरुषः ।
यद्यपि धर्मसेतुविभेदकरित्यत्रषष्ठीसमासस्य ‘कर्तरि च' इति प्रतिषेधोऽ-
स्ति, तथापि याजकादेराकृतिगणन्वेन केचिदीशप्रयोग समर्थयन्ते ।
अन्ये तु समासनिषेधः कृद्योगलक्षणषष्टीविषय इति शेषषष्टया समास-
मुपपादयन्ति । षष्ठीसमासप्रतिषेधकाण्डारम्भ स्वरविषय इति मुनातिकी-
याख्यवृत्तिकारः ॥ ६९ ॥
अत आलोचितजगद्धितैस्सुरगणैस्स्वयम् ।
न पतामि न भिद्ये च यथाऽहं क्रियतां तथा ॥ ४० ॥
अत इति । अतः अस्माद्धतोः । आलोचितजगद्वितैः चिन्तितलोकहि. तैः । सुरगणैः। अह यथा अतिभारान पतामि, न च भिद्ये स्वयमेव भिन्ना च न भवामि । कर्मकर्तरि यकप्रत्यय । तथा क्रियतामिति प्रार्थनायां लोट ॥ ४० ॥
इति ते भूतधारिण्या निसृष्टार्था दिवौकसः ।
अविदुस्तत्प्रियस्यैव तद्भारहरणं क्षमम् ॥ ४१ ॥
इतीति । भूतधारिण्या धरित्र्या। इति उक्तप्रकारेण। निसृष्टार्थाः न्य- स्तार्था निवेदितप्रयोजनाः । ते दिवौकसो देवाः। तत्प्रियस्य तस्या धरि- व्याः प्रियस्य नारायणस्यैव । तद्भारहरणम् । क्षम शक्यम् । अविदुः अचिन्तयन्। 'विद ज्ञाने' इति धातोर्लड । 'सिजभ्यस्तविदिभ्यश्च' इति झर्जुसादेशः ॥४१॥