पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२
यादवाभ्युदये


समूहैः। दीप्यमानः प्रकाशमानः । दयाम्बुधिः कृपाश्रयः समुद्र इव विपु. लाधारः, समुद्ररूपो वा । भवान् । व्यूहविभवैः व्यूहाः वासुदेवसङ्कर्षणप्रयु- मानिरुद्धाः, विभवाः रघुनाथाद्यवताराः तैः । तरङ्गैः ऊर्मिभिरिव । ताण्डव नटनं तथा तथाभिनयनम् । समुद्रपक्षे तु उल्ललनम् । तनोति। भवच्छ- ब्दप्रयोगेण युष्मदुपपदस्य स्थानिनोऽप्यभावात् 'शेपे प्रथमः' इति प्रथमपुरुषनिर्देशः । अनेन दयालोस्तव भक्तरक्षणायावतागदिपरिग्रहः

खाभाविक इति इदानीमपि रक्षणायावतरितव्यमिति व्यज्यते ॥ ४५ ॥

स्वदेकव्यञ्जितैरादौ त्वदन्येष्वनिदंपरैः ।
निगमैरनिगम्यं त्वां कः परिच्छेत्तुमर्हति ॥ ४६ ॥

त्वदेकेति।आदी महासर्गादौ। त्वदेकव्यजितैः एकेन व्यजिता एकव्यञ्जि- ताः त्वया एकव्यञ्जिता इति शिवभागवतवत् समासः । अन्यथा त्वदेकश- ब्दयोः प्रथम समासे पूर्वकालकसर्वजरत्पुराणेत्यादिना एकशब्दस्य पूर्वनि- पातः स्यात्। महासर्गादो भगवता पूर्वपूर्वकल्पप्रवृत्तानुपूर्वीविशिष्टाः वेदाः तथैवाविष्कृता इति शास्त्रमर्यादा । त्वदन्येषु । अनिदंपरैः इद पर मुख्य प्रतिपाद्यत्वेन प्रधान येषां ते इदपराः, अतथाभूतैः त्वद्वयतिरिक्तेषु तात्प- र्यपर्यवसानरहितैरित्यर्थः। ‘पर दूरान्यमुख्येषु' इति रत्नमाला। इत्थभूतैः, निगमैः वेदैः। अनिगम्य अनिश्चयम् । त्वाम् । कः । परिन्छेतु अर्हति। निग- मो निश्चये पुर्या पथि वेदे वणिक्पथे' इति रत्नमाला । यो ह्येतावद्भिर्वेद- राशिभिस्तदेकतात्पर्यैः प्रतिपाद्यमानोऽपि न सम्यक् परिच्छिद्यते, तमन्यः परिच्छेत्तुं न शक्नोतीति किमु वक्तव्यमिति व्यञ्जयितुं त्वदन्येष्वनिदंपरैरि- त्युक्तम् । यदि वेदानां कश्चिदन्यो वक्ता स्यात् तदा वक्तृदोषसंभ- वात् तेनैव तेषां निर्णयाशक्तत्वमन्यथासिद्ध न प्रमेयगौरवादित्याश- क्योक्तं त्वदेकव्यजितैरिति ॥ ४६॥