पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६
यादवाभ्युदये


धूमादिमार्गरूपम्, पापिनां तृतीयस्थानरूपा कष्टा दुर्गतिश्च । ‘कान्तारं वमै दुर्गमम्' इत्यमरः । तत्र, परिश्रान्तस्य गतागताभ्यां खिन्नस्य । देहि- नः शरीरिणः । त्वद्भक्तिरेव अमृतवाहिनी सुधानदी तस्याम् । अवगाहनम् । आदिष्टं गतागतश्रमहरत्वेनोपदिष्टम् , 'भक्तथा त्वनन्यया शक्यः अहमेव. विधोऽर्जुन । ज्ञातु द्रष्टु च तत्त्वेन प्रवेष्टु च परन्तप ।' इत्यादावित्यर्थः । अत्र भक्तावमृतवाहिनीत्वारोपस्य संसारा वश्रमहरणकार्योपयोगित्वात् परिणामालंकारः ॥ ५६ ॥

दुरितोदन्वदावर्ते घूर्णमानस्य दुःख्यतः ।
समग्रगुणसम्पन्नस्तारकस्त्वं प्लवो महान् ॥ ५४ ॥

दुरितेति । दुरितमेव उदन्वान समुद्रः तस्यावर्ते जलभ्रमे । स्यादावर्तोऽम्भसां भ्रमः ।' इत्यमर. । आवर्त इत्युपचाराहरितपरिपाकः तस्मिन् , घूर्णमानस्य परिव्राम्यतः । दु ख्यतः क्लिश्यत । दुःखशब्दस्य कण्ड्वादिषु पाठाद्यकप्रत्ययः । देहिनः शरणागतस्येति भावः । समग्राः अपरिच्छिन्ना गुणा ज्ञानशक्त्यादय एव गुणाः सूत्राणि तैः सपन्नः समृद्ध । त्वमेव, महान् प्लव इति व्यस्तरूपकम् । तारकः तारयिता। पूर्वत्र भक्तेः मुक्त्युपायत्वमुक्त इह तु प्रपत्तेरिति भेदः । पूर्ववत् परिणामा- लङ्कारः॥ ५४ ॥

अपरिच्छिद्यमानस्य देशकालादिभिस्तव ।
निदर्शनं त्वमेवैकस्त्वदन्यद्वयतिरेकतः ॥ ५५ ॥

अपरिच्छिद्यमानखेति । देशकालादिभिः विभुत्वाद्देशेन नित्य- त्वात् कालेन सर्वात्मकत्वात् वस्तुना चापरिच्छिद्यमानस्य । तव । त्वमेक एव । निदर्शनं दृष्टान्तः । त्वदन्यत् व्यापित्वादिना. प्रसिद्धं गगनादि ।