व्यतिरेकतः । निदर्शनमित्यनुषाः । गगमादिवद्देशपरिच्छिन्नो न भवती-
त्यादिक्रमेण व्यतिरेकदृष्टान्तो भवतीत्यर्थः । अत्र निदर्शनं त्वमेवैक
इत्येकस्यैव उपमानापमेयभावादनन्वयः । त्वदन्यद्यतिरेकत इति गग-
नादितो भगवदुत्कर्षवर्णनायतिरेकश्चेति नयोरन्योन्यानुप्राणितत्वेन
संकरः ॥ ५५ ॥
अकर्तुमखिलं कर्तुमन्यथाकर्तुमप्यलम् ।
सङ्कल्पसचिवः काले शक्तिलेशस्स तावकः ॥ ५६ ॥
अकर्तुमिति । अखिल प्रपञ्चम् । काले तत्तदुचितसमये। अकर्तुं कर्तुं अन्यथाकर्तुमाप प्रलयेष्वकर्तुं सर्गादिषु कर्तुं मन्वन्तरभेदेषु पूर्वेन्द्राद्य- धिकार विनिवर्त्य इन्द्रान्तराणां स्थापनक्रमेणान्यथाकर्तुं च । सङ्कल्प- सचिवः : त्वत्सङ्कल्पसहायः । 'सहायसचिवौ' इति वैजयन्ती । तावकः शक्तिलेशः त्वदीयशक्तिलेशरूपः । स काल एव । अल पर्याप्तः । त्वच्छ- क्तिलेश एव जगद्यापाराय पर्याप्तः । तव परिपूर्णशक्तिः कथ लक्ष्यत इति ततः कालात्मको योऽसौ तवांशः कथ्यते हरेः।' इत्यादी कालस्य भगवच्छक्तिलेशत्वं प्रसिद्धम् ॥ ५६ ॥
यन्मूलमखिलं कार्य यदमूलमधीयते ।
लक्ष्यं तदसि योगानां लक्ष्मीकौस्तुभलक्षणम् ॥५७॥
यन्मूलमिति । अखिलं वियदादि । कार्यम् । यन्मूल यत्कारणकम् । यत् अमूलं अकारणकम् । अधीयते न चास्य कश्चिन्जनिता न चाधिपः' इत्याद्युपनिषत्सु । तत् लक्ष्मीकौस्तुभलक्षणं लक्ष्मी: कौस्तुभाख्यो मणिश्च चिंह यस्य तथाभूतम् । योगानां दहरीपासनादिपरविद्यानाम् । लक्ष्य उदेश्यं परं ब्रह्म असि ॥ ५ ॥ भावः ।