पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१
प्रथमः सर्गः।

स दैत्यहत्यामिच्छद्भिस्सुरैरेवंमाभिष्टुतः ।
अनन्यदृश्यस्सहसा दयया दर्शनं ददौ ॥ ६५ ॥

स इति । दैत्यहत्यां असुराणां हननम् । 'हनस्त च' इति हन्तेर्भावे क्यप् तादेशश्च । तां, इच्छद्भिः सुरैः । एव उक्तप्रकारेण अभिष्टुतः । अनन्यानां एकान्तिनां दृश्यः । सः पुरुषोत्तमः । सहसा अतर्कितम् । अतर्किते तु सहसा' इत्यमरः । दयया । दर्शन ददौ तेभ्यो दर्शन प्रायच्छन् । तेषां पुरस्तादाविर्भूत इत्यर्थः ॥ ६५ ॥

ततस्तं ददृशुर्देवाः शेषपर्यङ्कमास्थितम् ।
अधिरूढशरन्मेघमन्यादृशमिवाम्बुदम् ॥ ६६ ॥

तत इति । ततः तदाविर्भावानन्तरम् । देवा ब्रह्मादयः । शेष एव पर्यको मञ्चः तम् । आस्थित अधिरूढम् । तिष्ठतेरुपसर्गभेदेनार्थ- भेदात् सकर्मकता। अत एव, अधिरूढशरन्मेघम् । अन्यादृश विलक्षण लोकोत्तरम् । अम्बुद अम्बुवाहमिव स्थितम् । तम् । ददृशुः । अत्र संभावनारूपोत्प्रेक्षा ॥ ६६ ॥

पत्न्या सहनिपेदुप्या पद्मलक्षणलक्ष्यया ।
स्वेच्छयैव शरीरिण्या मूचितैश्वर्यसंपदम् ॥ ६७ ॥

पत्न्येति । सहनिषेदुष्या शेषपर्य के स्वेन साकं निषण्णया । बीयां सदवसभ्रवः' इति वसुः । पद्ममेव लक्षणं चिहं तेन लक्ष्यया दृश्यया पद्महस्तया । स्वेच्छयैव कर्मवश्यतां विना स्वेच्छामात्रेण । शरी- रिण्या। पन्या श्रीमहालक्ष्म्या । सूचिता ऐश्वर्यसंपत् परभावरूपैश्वर्यप्रकर्षः यस्य तम् । इत आरभ्य लोकसप्तकस्य ददृशुरिति पूर्वेण संबन्धः। 'हीच