पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
यादवाभ्युदये

ते लक्ष्मीश्च पल्यौ' इति परं ब्रह्माधिकृत्य श्रवणात् लक्ष्मीपतित्वं परभाव- लिङ्गामिति भावः ॥६॥

सुकुमारसुखस्पर्शसुगन्धिभिरलंकृतम् ।
स्वविग्रहगुणारामप्रसूनैरिव भूषणैः ॥ ६८ ॥

सुकुमारेति । सुकुमाराणि कोमलानि, सुखः सुखकरः स्पर्शः एषा- मिति सुखस्पर्शानि तत्तत्कालसुखदायिस्पर्शविशेषयुक्तानि, 'सुखहेतो सुखे सुखम् ।' इति शब्दार्णवः । शोभनो गन्धो येषामिति सुगन्धीनि 'गन्धस्येदुत्पूतिसुसुरभिभ्यः' इति इत्समासान्तः । तैरिति खञ्जकुब्जवद्वि- शेषणसमासः । स्वविग्रह एव गुणानामाराम उपवन तस्य प्रसूनैरिव स्थितैः। भूषणैः दिव्याभरणैः । अलकृतमिति रूपकोत्थापितोत्प्रेक्षालं- कारः॥ ६८ ॥

आरजितजगन्नेत्रैरन्योन्यपरिकर्मितैः ।
अङ्गैरमितसौन्दर्यैरनुकल्पितभूपणम् ॥ ६९ ॥

आरञ्जितेति । आरजितजगन्नेत्र. अनुरक्तीकृतलोकलोचनैः ।

अन्योन्यपरिकर्मितैः परस्परेण संजातप्रसाधनैः । परिकर्मशब्दादितच्प्र- त्ययः, तारकादेराकृतिगणत्वात् । विशेषणद्वयेऽपि निमित्त अमितसौन्दर्यैः अमिताभिरूप्यैः । अझैः अनुकल्पितभूषण अमुख्यकल्पीकृताभरणम् । आभरणेभ्योऽप्यङ्गानामेव परस्परमतिगयितशोभावहत्वादितिभावः । 'मु- ख्यः स्यात् प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः' इत्यमरः । अनाङ्ग- विशेषणं भूषणानामनुकल्पितत्वे हेतुभाव भजत इति पदार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ ६९ ।।